SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पदं- ३०, उद्देशक:-, द्वारं - णं चउरिंदिया अनागारपस्सी, से एएणट्टेणं गो० ! एवं वु०, मणूसा जहा जीवास अवसेसा जहा नेरइया जाव वेमाणिया । वृ. 'कतिविधा णं भंते' इत्यादि, कतिविधा - कतिप्रकारा, णमिति वाक्यालङ्कारे, भदन्त 'पासणय'त्ति 'दशिप्रेक्षणे' पश्यतीति 'सति वानिता' विति अतृप्रत्ययः कर्त्तर्यनदादेशः, 'पाघ्राध्मास्थाम्नादाणुश्यर्त्तिश्रौतिकृवुधिवुशदसदः पिबजिध्रधमतिष्ठमनयच्छपश्यच्छश्रृकृधिशीयसीद' मिति दशेः पश्यादेशः पश्यतो भावः पश्यत्ता, 'भावे तत्वला 'विति तत्प्रत्ययः, 'आदापू' सैव पासणयेत्युच्यते, एष च पासणयाशब्दो रूढिवशात् साकारनाकारबोधप्रतिपादकः उपयोगशब्दवत् तथा चोपयोगविषये प्रश्नोत्तरसूत्रे इमे 'कइविहे णं भंते ! उवओगे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तं० - 'सागारोवओगे य अनागारोवओगे य' पश्यत्ताविषये ऽपि प्रश्नोत्तरसूत्रे इमे - 'कइविहा णं भंते! पासनाय पन्नत्ता गो० ! दुविहा पं० तं० - सागारपासणया अनागारपासणया' इति, ननु तुल्ये साकारनाकारभदत्वे कोऽनयोः प्रतिविशेषो येन पृथगुच्यते ?, उच्यते साकारानाकारऊभेदगतावान्तरभेदसङ्ख्यारूपः, तथाहि-पञ्च ज्ञानानि त्रीण्याजज्ञानानीत्यष्टविधः साकार उपयोगः, साकारपश्यत्ता तु षड्विधा, मतिज्ञानमत्यज्ञानयोः पश्यत्तयोः अनभ्युपगमात्, कस्मादिति चेत्, उच्यते, इह पश्यत्ता नाम पश्यतो भाव उच्यते, पश्यतो भावश्च 'दशिर् प्रेक्षणे; इति वचनात्, प्रेक्षणमिह रूढिवशात् साकारपश्यत्तायां चिन्त्यमानायां प्रदीर्घकालं अनाकारपश्यत्तायां चिन्त्यमानायां प्रकृष्टं परिस्फुटरूपमीक्षणमवसेयं, तथा च सति येन ज्ञानेन त्रैकालिकः परिच्छेदो भवति तदेव ज्ञानं प्रदीर्घकालविषयत्वात् साकारपश्यत्ताशब्दवाच्यं न शेषं, मतिज्ञानमत्यज्ञाने तु उत्पन्नाविनष्टार्थग्राहके साम्प्रतकालविषये, तथा च मतिज्ञानमधिकृत्यान्यत्रोक्तम् 119 11 "जनमवग्गहादिरूवंपचुप्पन्नवत्थुगाहगं लोए । इंदियमनोनिमित्तं च तमाभिनिबोधिगं बेंति ।।” तत् द्वे अपि साकारपश्यत्ता शब्दवाच्ये न भवतः, श्रुतज्ञानादीनि तु त्रिकालविषयाणि, तथाहि श्रुतज्ञानेन अतीता अपि भावा ज्ञायन्ते अनागता अपि, उक्तं च"जं पुण तिकालविसयं आगमगंथाणुसारि विन्नाणं । 119 11 २४१ इंदियमणोनिमित्तं सुयनाणं तं जिणा बेंति ।" अवधिज्ञानमपि सङ्ख्यातीता उत्सर्पिण्यवसर्पिणीः अतीताः परच्छिनत्ति भाविनीश्च, मनःपर्यज्ञानमपि पल्योपमासङ्घयेयभागमतीतं जानाति भाविनंच, केवलं सकलकालविषयं सुप्रतीतं, श्रुतज्ञानविभङ्गज्ञाने अपि त्रिकालविषये, ताभ्यामपि यथायोगमतीतानागतभावपरिच्छेदात्, ततः ज्ञानानि साकारपश्यत्ताशब्दवाच्यनि, उपयोगवस्तु यत्राकारो यथोदितस्वरूपः परिस्फुरति स बोधो वर्त्तमानकालविषयो वा यदि भवति त्रिकालिको वा तत्र सर्वत्रापि प्रवर्त्त इति साकारोपयोगोऽष्टविधः । तथा चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनमिति चतुर्विधोऽनाकारोपयोगः, अनाकारपश्यत्ता तु त्रिविधा, अचक्षुर्दर्शनस्यानाकारपश्यत्ताशब्दवाच्यत्वाभावात्, कस्मादिति. चेत्, उच्यते, उक्तमिह पूर्वमनाकारपश्यत्तायां चिन्त्यमानायां प्रकृष्टं परिस्फुटरूपमीक्षण 11 161 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy