SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २३५ पदं-२८, उद्देशकः-२, द्वारं-१३ अथवा आहार-काश्चनाहारकाश्च ३, जीवपदे एकेन्द्रियपदेषु च पुनः शरीरपर्याप्तयपर्याप्तसूतारे इन्द्रियपर्याप्तयपर्याप्त-सूत्रेप्राणापानपर्याप्तयपर्याप्तसूत्रेचप्रत्येकमभङ्गकंआहारकाअपिअनाहारका अपि, उभयेषामपि च सदा बहुत्वेन लभ्यमानत्वात्, भाषामनःपर्याप्तयपर्याप्तकास्त्वेकेन्द्रियविकलेन्द्रिया न भवन्ति, किन्तु पञ्चेन्द्रिया एव, येषां हि भाषामनः पर्याप्तिसम्भवोऽस्ति त एव तत्पर्याप्तयपर्याप्तकाःप्रोच्यन्ते, नशेषाइति, ततस्तसूत्रेबहुवचनेजीवपदेपञ्चेन्द्रियतिर्यग्योनिकपदे च भङ्गत्रिकं, ___ पञ्चेन्द्रियतिर्यञ्चो हिसम्मूर्छिमाः सदैवबहवोलभ्यन्ते,ततोयावदद्याप्यन्यो विग्रहगत्यापन्नः पञ्चेन्द्रियतिर्यग्न लभ्ययेतावदेषभङ्गः-सर्वेऽपितावद्भवेयुराहारका इति १, एकस्मिन्तस्मिन् विग्रहगत्यापन्ने लभ्यमाने द्वीतीय भङ्गः-आहारकाचानाहारकश्चेति २, यदा तु विग्रहत्यापन्ना अपि बहवो लभ्यन्ते तदा तृतीयो भङ्गः-आहारकाश्चनाहारकाश्चेति ३, जीवपदेऽपि भङ्गत्रिकं एतदपेक्षयाप्रत्येयं, नैरयिकदेवमनुष्येषुप्रत्येकंषड्भङ्गाः, तेचप्रागेवोक्ताः, इह भव्यपदादारभ्य प्राय एकत्वेन बहुत्वेन च वैविक्तयेन सूत्राणिजीवादिदण्डकक्रमेण नोकातानिततोमा भून्मन्दमतीनां सम्मोह इति तद्विषयमतिदेशमाह 'सव्वपएसुएगत्ते'त्यादि, एतेजीवादयो दण्डका; सर्वपदेषु-सर्वेष्वुपदेषुएकत्वेन बहुत्वेन च पृच्छयाउपलक्षणमेतन्निर्वचनेन भणितव्याः किं सर्वत्राप्यनविशेषेण कर्तव्याः ?, नेत्याह-'जस्से'त्यादि, यस्य यदस्ति तस्य तत्पृच्छयते-तद्विषयं सूत्रं भण्यते, यस्य पुनः यन्नास्ति नतस्यतप्रष्टव्यं-नतद्विषयं तस्य सूत्रं वक्तव्यमितिभावः कियडूरं यावदेवंकर्तव्यमिति शङ्कायां चरमदण्डकवक्तव्यतामुपदिशति-'जाव भासामनपज्जत्तीए अपज्जत्तएसु' इत्यादि, भाविता), इहाधिकृतार्थभावनार्थमिमाः पूर्वाचार्यप्रतिपादिता गाथाः॥१॥ “सिद्धेगिंदियसहिया जहिं तु जीवा अभंगयं तत्थ सिद्धेगिंदियवजेहिं होइजीवेहिं तियभंगो॥ ॥२॥ असण्णीसुय नेरइय देवमणुएसु होति छब्मंगा। पुढविदगतरुगणेसुयछब्भंगा तेउलेसाए॥ ॥३॥ कोहे माणे माया छब्मगा सुरगणेसु सव्वेसुं। माणे माया लोभे नेरइएहिंपिछब्भंगा॥ ॥४॥ आभिनिबोहियनाणे सुयनाणे खलु तहेव सम्मत्ते । छब्भंगा खलु नियमा बियतियचउरिदिएसु भवे ।। ॥५॥ __ उवरिल्लापज्जत्तीसु चउसुनेरइयदेवमणुएसुं। छब्भंगा खलु नियमा वज्जे पढमा उ अपज्जत्ती॥ ॥६॥ सण्णी विसुद्धलेसा संजय हिडिल्ल तिसु य नाणेसु। थीपुरिसाण य वेदेविछब्मंग अवेय तियभंगो॥ ॥७॥ सम्मामिच्छामणवइमणनाणे बालपंडियविउव्वी। आहारसरीरमियनियमा आहारया होति॥ ओहिंमि विभंगंमि य नियमा आहारया उ नायव्वा । पंचिंदिया तिरिच्छा मणुया पुन होति विब्भंगे। ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy