________________
२३०
अवसेसेसु जीवेगिंदियवज्जो तियभंगी, अकसाई जहा नोसण्णीनोअसण्णी, ।
वृ. कषायद्वारं - 'सकसाइ णं भंते! जीवे' इत्यादि, एकवचनविषयं सूत्रं सुगमं, बहुवचने 'जीवेगिंदियवज्जो तियभंगो' त्ति जीवपदे पृथिव्यादिषु च पञ्चसु पदेषु प्रत्येकं आहारका अपि अनाहारका अपि वक्तव्यं, उभयेषामपि सकषायाणां सदैव तेषु स्थानेषु बहुत्वेन लभ्यमानत्वात्, शेषेषु तु स्थानेषु भङ्गत्रिकं,
प्रज्ञापनाउपाङ्गसूत्रम् - २ -- २८/२/७/५६५
'कोहकसाई एवं चेव' त्ति क्रोधकषाय्यपि एवमेव-सामान्यतः सकषायवदसेयः, तत्रापि जीवपदे पृथिव्यादिपदेषु चाभङ्गकं, शेषेषु तु स्थानेषु भङ्गत्रिकमिति भावः, किं सर्वेष्वपि शेषेषु स्थानेषु भङ्गत्रिकं ?, नेत्याह- 'नवरं' 'देवेसु छब्भंगा' देवा हि स्वभावत एव लोभबहुला भवन्ति न क्रोधादिबहुलाः, ततः क्रोधकषायिण एकादयोऽपि लभ्यन्ते इति षड् भङ्गाः, तद्यथा - कदाचित् सर्वेऽप्याहारका एव क्रोधकषायिणः, एकस्यापि विग्रहत्यापन्नस्यालभ्यमानत्वात् ?, कदाचित्सर्वेऽप्यनाहारकाः २, एकस्यापि क्रोधकषायिणः सत आहारकस्याप्राप्यमानत्वात्,
क्रोधोदयो हि मानाद्युदयविविक्त एवेए विवक्ष्यते न मानाद्युदयसहितोऽपि तेन क्रोधकषायिणः सतः कदाचिदाहारकस्य सर्वथाऽप्यभावः, तथा कदाचिदेक आहारक एकोऽ नाहारकः ३ कदाचिदेक आहारको बहवोऽनाहारकाः ४, कदाचिद्बहव आहारका एकोऽनाहारकः ५, कदाचिद्बहव आहारकाः बहवश्चानाहारका इति ६, मानकषायसूत्रं मायाकषायसूत्रं चैकवचने प्राग्वत्, बहुवचने विशेषमाह
‘मानकसाईसु' इत्यादि, मानकषायिषु मायाकषायिषु बहुवचनेन चिन्त्यमानेषु देवेषु नैरयिकेषु च प्रत्येकं षड् भङ्गाः, नैरयिका हि भवस्वभावतः क्रोधबहुलाः देवास्तु लोभबहुलास्ततो देवानांनैरयिकाणां च मानकषायो मायाकषायश्च प्रविरल इति प्रागुक्तप्रकारेण षट् भङ्गाः, जीवपदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गकमाहारकाणामनाहारकाणां च मानकषायिणां मायाकषायिणां च प्रत्येकं सदैव तेषु २ स्थानेषु बहुत्वेन लभ्यमानत्वात्, शेषेषु तु स्थानेषु भङ्गत्रिकं, लोभकषायसूत्रमप्येकवचने तथैव, बहुवचने विशेषमाह-
‘लोभकसाईसु’ इत्यादि, लोभकषायिषु नैरयिकेषु षट् भङ्गास्तेषां लोभकषायस्याल्पत्वात्, शेषेषु तु जीवैकेन्द्रियवर्जेषु स्थानेष्वपि भङ्गत्रिकं, देवेष्वपि भङ्गत्रिकमिति भावः तेषां लोभबहुलतया षड्भङ्गसम्भवात्, जीवेष्वेकेन्द्रियेषु च प्राग्वदेष एव भङ्गः, आहारका अप्यनाहारका अपि इति, 'अकसाई जहा नोसण्णीणोअसण्णी' ति अकषायिणो यथा नोसंज्ञिनोऽसंज्ञिनो उक्तास्था वक्तव्याः, किमुक्तं भवति ? - अकषायिणोऽपि मनुष्याः सिद्धाश्च, मनुष्या उपशान्तकषायादयोवेदितव्याः, अन्येषां सकषायित्वात्, तत एतेषामपि त्रीणि पदानि, तद्यथा - सामान्यतो जीवपदं मनुष्यपदं सिद्धपदंच, तत्र सामान्यतो जीवपदे मनुष्यपदे च प्रत्येकमेकवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक एवेति, बहुवचने जीवपदे आहारका अपि अनाहारका अपीति, केवलिनामाहारकाणां सिद्धनामनाहारकाणां सदैव बहुत्वेन लभ्यमानत्वात्,
मनुष्यपदे भङ्गत्रिकं, सर्वेऽपि तावद् भवेयुराहारकाः १ अथवा आहारकाश्चनाहारकश्च २ अथवा आहारकाश्चनाहारकाश्च ३ भावना च प्रागेवानेकशः कृता, सिद्धपदे त्वनाहारक एव । गतं कषायद्वारं सम्प्रति ज्ञानद्वारम्, तत्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org