________________
पदं - २७, उद्देशक:-, द्वारं -
कति कम्मपगडीओ वेएति ?, गो० ! जहा बंधगवेदगस्स वेयणिज्जं तहा भाणितव्वाणि,
जीवे णं भंते! मोहणिज्जं वेदेमाणे कति कम्मपगडीतो वेदेति ?, गो० ! नियमा अट्ठ कम्पपगडीतो वेदेति, एवं नेरतिए जाव वैमाणिते, एवं पुहुत्तेणवि (पन्नवणाए भगवईए सत्तावीसइमं पयं समत्तं)
२०९
वृ. 'कई णं भंते!' इत्यादि गतार्थ, सम्प्रति किं कर्म वेदयमानः कति कर्मप्रकृतिर्वेदयते इत्युदयस्योदयेन सह सम्बन्धं चिन्तयति
'जीवे णं भंते! नाणावरणिज्जं कम्मं वेएमाणे कइ कम्मपगडीओ वेएइ' इत्यादि, तत्र सप्तविधवेदक उपशान्तमोहः क्षीणमोहो वा तयोर्मोहनीयोदयासम्भवात् शेषस्तु सूक्ष्मसंपरायादिरष्टविधवेदकः, एवं मनुष्यपदेऽपि वाच्यं, नैरयिकादयस्तु नियमादष्टविधवेदकाः बहुवचनचिन्तायां जीवपदे मनुष्यपदे च भङ्गत्रिकं, तत्र सर्वेऽपि तावतद् भवेयुः अष्टविधवेदका इत्येको भङ्गः, ततः सप्तविधवदकस्यैकस्य भावे द्वितीयो बहूनां भावे तृतीयः, शेषेषु तु नैरयिकादिषु पदेषु अभङ्गमष्टविधवेदका इति, सप्तविधवेदकत्वस्य तत्रासम्भवात्,
एवं दर्शनावरणीयान्तरायसूत्रेऽपि वक्तव्यं, वेदनीयसूत्रे जीवपदे मनुष्यपदे च प्रत्येकमष्टविधवेदको वा सप्तविधवेदको वा चतुर्विधवेदको वेति वक्तव्यं, शेषेषु तु नैरयिकादिषु अष्टविधवेदक इत्येकः तेषामुपशान्तमोहत्वाद्यवस्थासम्भवात्, तत्रैव वेदनीयसूत्रे बहुवचनचिन्तायां जीवपदे मनुष्यपदे च प्रत्येकं भङ्गत्रिकं, तत्राष्टविधवेदकाश्चेत्येको भङ्गः एष सर्वथा सप्तविधवेदकानामभावे, ततः सप्तविधवेदकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ भङ्गाविति, शेषेषु तु नैरयिकादिषु स्थानेष्वभङ्गकं अष्टविधवेदका इति, एवमायुर्नामगोत्रसूत्राण्यपि भावनीयानि,
मोहनीयं कर्म वेदयमानो नियमादष्टविधवेदक इति, जीवादिषु पञ्चविंशतौ पदेष्वेकवचनचिन्तायां बहुवचनचिन्तायं च सर्वत्रापि अभङ्गकं - अष्टौ कर्मप्रकृतीर्वेदयते वेदयन्ते वा ।। पदं - २७ - समाप्तम्
पदं - २८ - " आहारं "
वृ. तदेवमुक्तं वेदवेदाख्यं सप्तविंशतितमं पदं, सम्प्रपत्यष्टाविंशतितममारभ्यते, तस्य चामभिसम्बन्धः-इहानन्तरपदे नारकादिगतिसमापन्नानां कर्मवेदनापरिणाम उक्तः, इह वाहारपरिणाम इति, तत्र चेमे सङ्ग्रहणिगाथे
मू. (५५०) सच्चित्ता १ हारट्ठी २ केवति ३ किं वावि ४ सव्वतो चेव ५ । कतिभागं ६ सव्वे ७ खलु परिणामे ८ चेव बोद्धव्वे ॥
वृ. 'सचित्ताहारट्ठी' इत्यादि प्रथमोऽधिकारः सचित्तपदोपलक्षितः, स चैवम्- 'नेरइया णं भंते! किं सचित्ताहारा अचित्ताहारा इत्यादि १, द्वितीय आहारार्थिन इति २, तृतीयः 'केवइय'त्ति कियता कालेन आहारार्थः समुत्पद्यते इत्यादिरूपः ३, चतुर्थः किमाहारमाहारयन्तीतिपदोपलक्षितः ४ पञ्चमः सर्वत इतिपदोपलक्षितः, स चैवम्- 'नेरइया णं सव्वतो परिणामंति' त्यादि ५ चेवशब्दः समुच्चये, 'कइभागं 'ति गृहीतानां पुद्गलानां कतिभागमाहारयन्तीत्येवमादिः षष्ठोऽधिकारः ६, 'तथा सव्वे' इति यान् पुद्गलान् आहारतया गृह्णन्ति तान् किं सर्वान् - अपरिशेषान् आहारयन्ति
11 14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org