SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२-२६/-/-/५४८ भाज्याः, ततस्तेषामभावे सप्तविधबन्धका अप्येकविधबन्धका अपीत्येको भङ्गः, , ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ षड्विधबन्धकपदप्रक्षेपे द्वावेकविधबन्धकपदप्रक्षेपे इति षट्, तथा त्रयाणां पदानां त्रयो द्विकसंयोगा एकैकस्मिन् द्विकसंयोगे एकवचनबहुवचनाभ्यां चत्वार इति द्विकसंयोगे द्वादश त्रिकसंयोगे ऽष्टाविति सर्वसङ्ख्यया सप्तविंशतिः एवमायुर्नामगोत्रसूत्राण्यपि भावनीयानि, २०८ मोहवेदनीयं कर्म वेदयमानो जीवः सप्तविधबन्धकोऽष्टविधबन्धकः षड्विधबन्धको वा, सूक्ष्मसम्परायावस्थायामपि मोहनीयवेदनसम्भवात्, एवं मुष्यपदेऽपि वक्तव्यं, नरकादिषु तु पदेषु सप्तविधबन्धकोऽष्टविधबन्धको वेत्येवं वक्तव्यं, सूक्ष्मसम्परायत्वाभावतः षड्विधबन्धकत्वासम्भवात्, बहुवचनचिन्तायां जीवपदे भङ्गत्रिकं, तत्र सूक्ष्मसम्परायाः कादाचित्का इतरे च द्वये सदैव बहुत्वेन लभ्यन्ते इति षड्विधबन्धकपदाभावे सप्तविधबन्धका अपि अष्टविधबन्धका अपीत्येको भङ्गः, ततः षड्विधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वावेतौ भङ्गाविति, नैरयिकादिषु स्तनितकुमारपर्यवसानेषु सप्तविधबन्धकाः सदा बहुत्वेनावस्थिताः, अष्टविधबन्धकास्तु कादाचित्का एकत्वादिना च भाज्या इति, अष्टविधबन्धकपदाभावे सप्तविधबन्धका इत्येको भङ्गः, ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वाविति, पृथिव्यादिषु तु पञ्चस्वप्यभङ्गकं सप्तविधबन्धका अपि अष्टविधबन्धका अपीति, उभयेषामपि तेषु सदा बहुत्वेन लभ्यमानत्वात्, द्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियेषु व्यन्तरज्योतिष्कवैमानिकषु च नैरयिकवत् भङ्गत्रिकं, मनुष्येषु नव भङ्गाः, तत्र सप्तविधबन्धका इत्येको भङ्गस्ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ षड्विधबंधकपदप्रक्षेपे एकवचनबहुवचनाभ्यां चत्वारः उभयपदप्रक्षेपे इति, तथा चाह -- "मोहणिज्जं वेएमाणे जहा बंधे नाणावरणिज्जं तहा भणियव्व' मिति ॥ पदं - २६ – समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे षड्विंशतितमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । पदं - २७ - "कर्मवेद वेद" वृ. संप्रति सप्तविंशतितममारभ्यते, तत्रेदमादिसूत्रम् मू. (५४९) कति णं भंते! कम्मपगडीओ पं० ?, गो० ! अट्ठ, तं० - नाणा० जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं, जीवेणंभंते! नाणावरणिज्जं कम्मं वेदेमाणेकति कम्मपगडीतो वेदेति ?, गो० ! सत्तविहवेयए वा अट्ठविहवेयए वा, एवं मणूसेवि, अवसेसा एगत्तेणवि पुहुत्तेणवि नियमा अट्ठ कम्मपगडीतो वेदेति जाव वेमाणिया, जीवा णं भंते! नाणावरणिज्जं वेदेमाणा कति कम्मपगडीतो वेदेति ?, गो० ! सव्वेवि ताव होज्जा अट्ठविहवेदगा, अहवा अट्ठविहवेदगा य सत्तविहवेदगे य अहवा अट्ठविहवेदगा य सत्तवि०, एवं मणूसावि, दरिसणावरणिज्जं अंतराइयं च एवं चेव भाणितव्वं, वेदणिज्जं आउयनामगोत्तातिं वेदेमाणे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy