SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १७ पदं-१५, उद्देशकः-१, द्वारंअपि द्विधा-उपयुक्ताः अनुपयुक्ताश्च, तत्रानुपयुक्ता न जानन्ति न पश्यन्तसामान्यरूपतया विशेषरूपतया वापरिच्छेदस्य प्रणिधानमन्तरेणकर्तुमशक्यत्वात्, येतूपयुक्तास्तेजानन्तिपश्यन्ति च, कथमिति चेत् ?, उच्यते-इहावश्यके अवधिज्ञानविषयचिन्तायामिदमुक्तं “संखेन्ज कम्मदव्वेलोगे थोवूणगंपलियं' अस्यायमर्थः-कर्मद्रव्याणि-कर्मशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्खयेयान् भागान् पश्यति, अनुत्तरसुराश्च सम्पूर्णां लोकनाडी पश्यन्ति, “सम्भिन्नलोगनालिं पासंति अणुत्तरा देवा" इति वचनात्, ततस्ते उपयुक्ता जानन्ति पश्यन्ति चावधिज्ञानेन तान्निर्जरापुद्गलानिति, आहारयन्तीति च सर्वत्रापि लोमाहारेणेति प्रतिपत्तव्यं । इन्द्रियाधिकारादयमपि प्रश्नः मू. (४२७) अद्दायं पेहमाणे मणूसे अद्दाय पेहति अत्ताणं पेहइ पलिभागं पेहति?, गो० अदायं पेहति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेणं असिं मणिं दुद्धं पाणं तेलं फाणियं वसं। वृ. 'अद्दायं पेहमाणे' इत्यादि, ‘अद्दाय मिति आदर्श 'पेहमाणे' इति प्रेक्षमाणो मनुष्यः किमादर्शप्रेक्षतेआहोश्चिदात्मानं?,अत्रात्मशब्देन शरीरमभिगृह्यते, उत पलिभाग मितिप्रतिभागं प्रतिबिम्बं?, भगवानाह-आदर्शतावत्प्रेक्षतएव, तस्य स्फुटरूपस्ययथावस्थिततयातेनोपलम्भात्, आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात्, स्वशरीरंहिस्वात्मनिव्यवस्थितंनादर्शततः कथमात्मशरीरंचतत्रपश्येदिति?,प्रतिभागंस्वशरीरस्य प्रतिबिम्बंपश्यति,अथ किमात्मकं प्रतिबिम्बं?, उच्यते, छायापुद्गलात्मकं, तथाहिसर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्च, रश्मय इति छायापुद्गलाः, व्यवह्यिन्तेच छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापिस्थूलवस्तुनःछाया, अध्यक्षतःप्रतिप्राणिप्रतीतेः, अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति ततो न तत्र तश्यते तस्मादवसीयते सन्ति छायापुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्परपरिणमनस्वभावास्तथाहि ते छायापुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसंबंधिद्रव्याकारमाबिभ्राणाः श्यामरूपतयापरिणमन्ते निशितुकृष्णाभाः, एतच्च प्रसरति दिवसे सूर्यकरनिकरेनिशितुचन्द्रोद्योते प्रत्यक्षतएव सिद्धं, तएव छायापरमाणवःआदादिभास्वद्रव्यप्रतिगताःसन्तः स्वसंबंधिद्रव्याकारमादधानाः याग वर्णःस्वसम्बन्धिनि द्रव्ये कृष्णो नीलः शितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शनादिष्वध्यक्षतः सिद्धं, ततोऽधिकृतसूतरेऽपियेमनुष्यस्यछायापरमाणवआदर्शमुपसंक्रम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिबिम्बशब्दावाच्याअत उक्तं-न शरीरंपश्यति किन्तु प्रतिभागमिति, नैवैतत् स्वमनीषिकाविजृम्भितं, यत उक्तमागमे॥१॥ "सामा उ दिया छाया अभासुरगता निसिं तु कालाभा। सा चेव भासुरगया सदेहवण्णा मुणेयव्वा । ॥२॥ जे आदरिसस्सन्तो देहावयवा हवंति संकेता। | 11/21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy