________________
पदं - २३, उद्देशकः -१, द्वारं -
असातवेदनीयं ज्ञानावरणीयं सुरापानमति, ततः पुद्गलपरिणामं प्राप्येत्युक्तं,
कतिविधोऽनुभावः प्रज्ञप्त इत्येष प्रश्नः, अत्र निर्वचनं - दशविधोऽनुभावः प्रज्ञप्तः कतदेव दशविधमनुभावं दर्शयति-सोयावरणे' इत्यादि, इह श्रोत्रशब्देन श्रोत्रेन्द्रियविषयः क्षयोपशमः परिगृह्यते ‘सोयविन्नाणावरणे' इति श्रोत्रविज्ञानशब्देन श्रोत्रेन्द्रियोपयोगो, यत्तु निर्वृत्त्युपकरणलक्षणं द्रव्येन्द्रियं तदङ्गोपाङ्गनामकर्मनिर्वत्त्यं न ज्ञानावरणविषय इति न श्रोत्रशब्देन गृह्यत्ते, एवं नेत्रावरणे इत्याद्यपि भावनीयं तच्चैकेन्द्रियाणां रसनघ्राणचक्षुः श्रोत्रविषयाणं लब्ध्युपयोगानां प्राय आवरणं, प्रायोग्रहणं च बकुलादिव्यवच्छेदार्थं, बकुलादीनां हि यथायोगं पञ्चानामपीन्द्रियाणां लब्ध्युपयोगाः फलतोऽस्पष्टा उपलक्ष्यन्ते, आगमेऽपि च प्रोच्यन्ते
॥१॥
“पंचिंदियोवि बउलो नरोव्व पंचिंदिओवओगाओ । तहवि न भण्णइ पंचिंदिओत्ति दव्विंदियाभावा ॥"
-तथा
१७३
॥२॥
“जह सुहुमं भाविंदयनाणं दव्विंदियावरोहेवि । दव्वसुयाभावंमिवि भावसुयं पत्थिवाईणं ॥” इति
ततः प्राय इत्युक्तं, द्वीन्द्रियाणां घ्राणचक्षुः श्रोत्रेन्द्रियविषयाणां लब्ध्युपयोगानां त्रीन्द्रियाणांचक्षुः श्रोत्रविषयाणां चतुरिन्द्रियाणां श्रोत्रेन्द्रियलब्ध्युपयोगावरणं सर्वेषामपि स्पर्शनेन्द्रियलब्ध्युपोगावरणं कुष्ठादिव्याधिभिरुपहतदेहस्य द्रष्टव्यं पञ्चेन्द्रियाणामपि जात्यन्धादीनां पञ्चाद्वा अन्घबधिरीभूतानां चक्षुरादीन्द्रियलब्ध्युपयोगावरणं भावनीयं, कथमेवमिन्द्रियाणां लब्ध्युपयोगावरणमिति चेत्, उच्यते, स्वयमुदीर्णस्य परेण वा उदीरितस्य ज्ञानावरणीयकर्मण उदयेन, तथा चाह - 'जंवेएइ' इति, यद्वेदयते परेण क्षिप्तं काष्ठलेष्टुखङ्गादिलक्षणं पुद्गलं तेनाभिधातजननसमर्थेन 'पुग्गले वा' इति यावद्बहून् पुद्गलान् काष्ठादिलक्षणान् परेण क्षिप्तान् वेदयते, तैरभिघातजननसमर्थैः, 'पुद्गलपरिणामंवा' इति यं वा पुद्गलपरिणाममभ्यवहृताहारपरिणामरूपं पानीयरसादिकमति - दुःखजनकं वेदयते तेन वा ज्ञानपरिणत्युपहननात् तथा - 'वीससा वा पोग्गलाणं परिणाम' मिति विनसया यः पुद्गलानां परिणामः शीतोष्णातपादिरूपस्तं वेदयते यदा तदा तेनेन्द्रियोपघातजननद्वारेण ज्ञानपरिणतावुपहतायां ज्ञातव्यमेवैन्द्रियकमपि सद्वस्तु न जानाति, ज्ञानपरिणतेरुपहतत्वात्, अयं सापेक्ष उदय उक्तो, निरपेक्षस्य तु विषये सूत्रमिदम्
‘तेसिं वा उदएणं’ति तेषां वा ज्ञानावरणीयकर्मपुद्गलानां विपाकप्राप्तानामुदयेन ज्ञातव्यं न जानाति 'जाणिउकामेविन याणइ' इति ज्ञानपरिणामेन परिणंतुमिच्छन्नपि ज्ञानपरिणत्युपघातान्न जानाति, 'जाणित्तावि न याणइ' इति, प्राक् ज्ञात्वाऽपि पञ्चान्न जानीते, तेषामेव ज्ञानावरणीयकर्मपुद्गलानामुदयात्, 'उच्छन्ननाणी यावि भवइ' इत्यादि, ज्ञानावरणीयस्य कर्मण उदयेन जीव उच्छन्नज्ञान्यपि भवति, उच्छन्नं च तद् ज्ञानं च उच्छन्नज्ञानं तस्यास्तीति उच्छन्नज्ञानी, सर्वधनादिपाठाभ्युपगमादिन्, यावत्शक्तिप्रच्छादितज्ञान्यपि भवतीत्यर्थः, 'एस णं गोयमा ! नाणावरणिजे कम्मे' इत्याद्युपसंहारवाक्यं कण्ठ्यं,
‘दंसणावरणिज्जस्स णं भंते!' इत्यादि प्रश्नसूत्रं पूर्ववत्, निर्वचनमाह - गौतम ! नवविधः प्रज्ञप्तः, तदेव नवविधत्वं दर्शयति- 'निद्रा' इत्यादि, निद्राशब्दार्थमग्ने वक्ष्यामो, भावार्थस्त्वयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org