________________
१६६
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/१/-/५३५
तं०-नाणावरणिज्जं १ दंसणावरणिनं २ वेदणिज्जं ३ मोहणिज्जं ४ आउयं ५ नाम ६ गोयं ७ अंतराइयं ८०।
नेरइयाणं भंते! कइ कम्मपगडीओ पं०?, गो० ! एवं चेव, एवंजाव वेमाणियाणं ॥१
वृ. 'कतिणंभंते! कम्मपयडीओपन्नत्ताओ' इति, ननूक्तमेव क्रियापदे कतिकर्मप्रकृतय इति ततः किमर्थमिह प्रकृतिमसङ्ख्यार्थः प्रश्नः ?, उच्यते, विशेषप्रतिपादनार्थः, स चायं विशेषः-पूर्वं ज्ञानावरणीयादि कर्मबध्नन् कतिभिः क्रियाभिर्युज्यतेइत्युक्तं, क्रियाश्चप्राणातिपातहेतवः,प्राणातिपातश्च बाह्यं ज्ञानावरणीयादिकर्मबन्धकारणं, कर्मबन्धः कार्य, इह तु ज्ञानावरणीयादिकर्म एवान्तरं कर्मबन्धकारणं प्रतिपाद्यमिति, भगवनिर्वचनमाह
'गौतम अष्टौ कर्मप्रकृतयः प्रज्ञप्ताः, एता एव नामग्राहं दर्शयति-'ज्ञानावरणीयं दर्शनावरणीयं' इत्यादि, ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं-सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः,आवियते-आच्छाद्यतेअनेनेत्यावरणीयं कृबहुल मिति वचनात् करणेऽनीयप्रत्ययः, ज्ञानस्यावरणीयं त्रानावरणीयं, श्यतेऽनेनेति दर्शनं-सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः, उक्तंच॥१॥ “जं सामन्नग्गहणं भावाणं नेय कटु आगारं।
अविसेसिऊण अत्थे दंसणमिइ वुच्छइए समए॥" तस्यावरणीयं दर्शनावरणीयं, तथा वेद्यते-गाह्यादादिरूपेण यदनुभूयते तद्बदनीयं, अत्र कर्मण्यनीयः, यद्यपिच सर्वकर्मवेद्यतेतथापि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेदनीयमित्युच्यते, न शेषं, तथा मोहयति-सदसद्विवेकविकलं करोति आत्मानमिति मोहनीयं, अत्र बहुलवचनात् कर्तर्य्यनीयः, तथा एति आगच्छति प्रतिबन्धकतां स्वकृतकर्मबद्धनरकादिकुगतेर्निष्क्रमितुमनसोजन्तोरित्यायुः, अथवा आ समन्तादेति-गच्छति भवाद् भवान्तरसङ्कान्तौ विपाकोदयमित्यायुः, उभयत्राप्यौणादिक उस्प्रत्ययः,
तथा नामयति-गत्यादिपर्यायानुभवनंप्रतिप्रवणयतिजीवमिति नाम, तथागूयते-शब्धते उच्चावचैः शब्दैर्यत् तद् गोत्रं-उच्चनीयचकुलोत्पत्तिलक्षणः पर्यायविशेषः तद्विपाकवेद्यं कर्मापि गोत्रं, कार्ये कारणोपचारात् यद्वा कर्मणोऽपादानविवक्षा गूयते-शब्धते उच्चावचैः शब्दैरात्मा यस्मात् कर्मणः उदयाद्गोत्रं, तथाजीवंदानादिकंचान्तरा व्यवधानापादनाय एति-गच्छत्यन्तरायं,
जीवस्य दानादि कर्तुमुद्यतस्य विघातकृद् भवतीत्यर्थः, अत्राह-नन्वित्यं ज्ञानावरणीयाद्युपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेव प्रवृत्तिरिति?, अस्तीति ब्रूमः, किं तदिति चेत्, उच्यते, इह ज्ञानं दर्शनंचजीवस्य स्वतत्त्वभूतं, तदभावेजीवत्वस्यैवाभावात्, चेतनालक्षणो हि जीवस्ततः स कथं ज्ञानदर्शनाभावे भवेत् ?,
ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानं, तद्वशादेव सकलशास्त्रादिविषयविचारसन्ततिप्रवृत्तेः, अपिच-सर्वाअपिलब्धयोजीवस्य साकारोपयोगोपयुक्तस्योपजायन्ते, नदर्शनोपयोगोपयुक्तस्य, ‘सव्वाओ लद्धीओ सागरोवउत्तस्स नो अनागारोवओगोवउत्तस्से' ति वचनप्रमाण्यात्, अन्यच्च- यस्मिन् समये सकलकर्मविनिर्मुक्तस्वरूपो जीवः सम्पद्यते तस्मिन् समये ज्ञानोपयोगोपयुक्त एव न दर्शनोपयुक्तो, दर्शनोपयोगस्य द्वितीयसमये भावात्, ततो ज्ञानप्रधानं,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org