________________
१४५
पद-२१, उद्देशकः-, द्वारंतयोरपि पुद्गलचयो नियमात् षड्भ्यो दिग्भ्यः,
तैजसकामणे सर्वसंसारिणां, ततो यथौदारिकस्य निर्व्याधातेन षड्भ्यो दिग्भ्यो व्याघातं प्रतीत्यपुनः स्यात् त्रिदिग्भ्यः स्याच्चतुर्दिगभ्यः स्यात् पञ्चदिग्भ्यः तथातैजसकार्मणयोरपि द्रष्टव्यः, यथाचयस्तथा उपचयोऽपचयश्चवक्तव्यः,तत्र उपचयः-प्राभूत्येनचयःअपचयो-ड्रासःशरीरेभ्यः पुद्गलानां विचटनमितियावत् । उक्तं पुद्गलचयनमिदानीं शरीरसंयोगमाह
_ 'जस्सणंभंते!' इत्यादि, यस्यौदारिकंतस्य वैक्रियं स्यादस्तिस्यान्नास्ति, यऔदारिकशरीरी सन्वैक्रियलब्धिमान् वैक्रियमारभ्यतत्र वर्ततेतस्यास्ति शेषस्य नास्तीतिभावः,यस्य वैक्रियशरीरं तस्यौदारिकशरीरं स्यादस्ति स्यान्नास्ति, देवनारकाणां वैक्रियशरीरवतामौदारिकशरीरं नास्ति तिर्यग्मनुष्याणांतुवैक्रियशरीरवतामस्तीतिभावार्थः,आहारकशरीरेणापि सहचिन्तायांयस्यौदारिकशरीरं तस्याहारकशरीरं स्यादस्ति स्यानास्ति, य औदारिकशरीरी चतुर्दशपूर्वधर आहारकलब्धिमान् आहारकशरीरमारभ्य वर्तते तस्यास्ति शेषस्य नास्तीत्यर्थः, यस्य पुनराहारकशरीरं तस्यौदारिकशरीरं नियमादस्ति, औदारिकशरीरविरहे आहारकलब्धेरप्यसम्भवात, तैजसशरीरेण सह चिन्तायां यस्यौदारिकशरीरं तस्य नियमात्तैजसशरीरं, तैजसशरीरविरहे औदारिकशरीरासम्भवात्, यस्य पुनस्तैजसशरीरंतस्यौदारिकंस्यादस्तिस्यानास्ति, देवनैरयिकाणां नास्ति तिर्यग्मनुष्याणामस्तीति भावः, एवं कार्मणशरीरेणापिसह चिन्ता कर्तव्या, तैजसकार्मणयोःसहचारित्वात, सम्प्रति वैक्रियशरीरस्याहारकशरीरादिभिः सह संयोगचिन्तां कुर्वत्राह
___ 'जस्स णं भंते !' इत्यादि, यस्य वैक्रियशरीरं न तस्याहारकशरीरं यस्याहारकशरीरं न तस्य वैक्रियशरीरं, समकालमनयोरेकस्यासम्भवात्, तैजसकार्मणेयथौदारिकशरीरेण सह चिन्तिते तथा वैक्रियशरीरेणापि सह चिन्तयितव्ये, आहारकशरीरेणापि सह तथैव, तैजसकार्मणयोस्तु परस्परमविनाभावित्वात् यस्य तैजसं तस्य नियमात् कार्मणं यस्य कार्मणं तस्य कार्मणं तस्य नियमात् तैजसम् । गतं संयोगद्वारम्, इदानीं द्रव्यप्रदेशोभयैरल्पबहुत्वभिधिसुराह
मू. (५२३) एतेसिणं भंते! ओरालियवेउब्वियआहारगतेयगकम्मगसरीराणंदवट्ठयाए पदेसट्टयाए दवट्ठपएसट्टयाते कयरे२हितो अप्पा वा ४ ?, गो० ! सव्वत्योवा आहारगसरीरा दबट्ठयाते वेउब्वियसरीरा दव्वट्ठयाए असंखेजगुणा ओरालियसरीरा दबट्टयाते असं० तेयाकम्मगसरीरा दोवि तुल्ला दवट्ठयाते अनंतगुणा,
पदेसट्टयाए सव्वत्थोवा आहारगसरीरा पदे० वेउब्बियसरीरापदे० असं० ओरालियसरीरा पदे० असं० तेयगसरीरा पदे० अनं० कम्मगसरीरा पदे० अनं०,
दवट्ठपदेसठ्ठयातेसव्वत्थोवा आहारगसरीरा दव्वट्ठयातेवेउब्वियसरीरादब्वट्ठाए असं० ओरालियसरीरादब्वट्ठयाएअसं० ओरालियसरीरेहितोदवट्ठयाएहितो आहारगसरीरापदेसट्टयाए अनं० वेउब्वियसरीरा पदे० असं० ओरालियसरीरा० पदे० असंखेजगुणा तेयाकम्मा दोवितुल्ला दवट्ठयाए अनं० तेयगसरीरा पदे० अनंतगुणा कम्मगसरीरा पदे० अनं० ।
वृ. 'एएसिणंभंते!' इत्यादि, सर्वस्तोकान्याहारकशरीराणिद्रव्यार्थतया, शरीरमात्रद्रव्यसङ्ख्ययाइत्यर्थः, उत्कृष्टपदेऽपि तेषांसहस्रपृथकत्वस्य प्राप्यमाणत्वात्, उक्कोसेणउजुगवंपुहुत्तमेत्तं 1110
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org