SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पद-२०, उद्देशकः-, द्वारं-५ ११५ गो० ! नो० ति०, केवलिपन्नत्तं धम्मं लभेजा सवणयाते, एवं वाउकाइएवि, वणस्सइकाइएणं पुच्छा, गो०! नो० ति०, अंतकिरियं पण करेजा, बेइंदियतेइंदियचउरिदिएणं पुच्छा, गो०! नोति०, मनपज्जवनाणं उप्पाडेजा, पंचिंदियतिरिक्खजोणियमणूसवाणमंतरजोइसिएणंपुच्छा, गो० नो० ति०, अंतकिरियं पुण करेजा, सोहम्मगदेवेणं भंते ! अनंतरं चयं चइत्ता तित्थगरत्तं लभेजा, गो०! अत्थे० ल० अत्ये० नो ल०, एवं जहा रयणप्पभापुढविनेरइए एवं जाव सव्वट्ठसिद्धगदेवे ।। वृ. 'रयणप्पभापुढवीनेरइया णं भंते !' इत्यादि सुगमं, नवरं 'बद्धानि' सूचीकलाप इव सूत्रेण प्रथमतोबद्धमात्राणि, तदनन्तरमग्निसंपर्कानन्तरं सकृत् धनकुट्टितसूचीकलापवत् स्पृष्टानि 'निधत्तानि' उद्वर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीति भावार्थः 'कृतानि' निकाचितानि सकलकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः ‘प्रस्थापितानि मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तिनामसहोदयत्वेन व्यवस्थापितानीति भावः 'निविष्टानि' तीव्रानुभावजनकतयास्थितानि अभिनिविष्टानि विशिष्टविशिष्टतराध्यवसायभावतोऽतितीव्रानुभावजनकतया व्यवस्थितानि ‘अभिसमन्वागतनानि' उदयाभिमुखीभूतानि 'उदीर्णानि' विपाकोदयमागतानि 'नोपशान्तानि न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कण्ठयं, एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । __ पङ्कप्रभापृथिवीरनैरयिकस्ततोऽनन्तरमुवृत्तःतीर्थकरत्वंनलभते, अन्तक्रियांपुनः कुर्यात्, धूमप्रभापृथिवीनैरयिकोऽन्तक्रियामपिनकरोति, सर्वविरतिंपुनर्लभते, तमः-प्रभापृथिवीनैरयिकः सर्वविरतिमपिन लभते, विरत्यविरतिं-देशविरतिंपुनर्लभते, अधःसप्तमपृथिवीनैरयिकः पुनस्तामपि देशविरतिं न लभते, यदि परं सम्यकत्वमात्रं लभते । . असुरादयो यावद्वनस्पतिकायाअनन्तरमुवृत्ताः तीर्थकरत्वं न लभन्ते, अन्तक्रियांपुनः कुर्युः । वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युवृत्तोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसर्पिण्यांचतुविंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्ति।। तेजोवायवोऽनन्तरमुवृत्ताः अन्तक्रियायामपि न कुर्वन्ति, मनुष्येषु तेषामानन्तर्येणोत्पादाभावाद्, अपि च ते तिर्यसूत्पान्नाः केवलिप्रज्ञप्तं धर्मं श्रवणतया लभेरन्, न तुबोधत इत्युक्तं प्राक्, वनस्पतिकायिका अनन्तरमुवृत्तास्तीर्थकरत्वंन लभन्ते, अंतक्रियांपुनः कुर्युः, द्वित्रिचतुरिन्द्रिया अनन्तरमुवृत्तास्तामपि न कुर्वन्ति, मनःपर्यायज्ञानं पुनरुत्पादयेयुः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्काअनन्तरमुवृत्तास्तीर्थकरत्वंन लभन्ते, अन्तक्रियां पुनः कुर्युः, सौधर्मादयःसर्वार्थसिद्धिपर्यवसाना नैरयिकवद्वक्तव्याः । गतं तीर्थकरद्वारं, सम्प्रति चक्रवर्तित्वादीनि द्वाराण्युच्यन्ते -: पदं -२०, दाराणि (६....९) चक्रवर्तीआदि :मू. (५०६) रयणप्पभापुढविनेरइए णं भंते ! अनंतरं उव्वट्टित्ता चक्कवट्टितं लभेजा, गो० ! अत्थे० लभेज्जा अत्थे० नो लभेज्जा, से केणतुणं भंते ! एवं वु० ?, गो० ! जहा रयणप्पभापुढविनेरइयस्स तित्थगरतं। सक्करप्पभानेरइए अनंतरं उवट्टित्ता चकवट्टित्तं लभेजा ?,गो० ! नो० ति०, एवं जाव अधेसत्तमापुढविनेरइए, तिरियमणुएहितो पुच्छा, गो० ! णो० ति०, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy