SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पदं–१, उद्देशकः-, द्वारं ७१ एव सामायिकं विनयादेराकृतिगणतया “विनयादिभ्यः" इत्यनेनस्वार्थिक इकण, तच्चसर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथाऽपि छेदादिविशेषैर्विशेष्यमाणमर्थःतशब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेषणात् सामान्यशब्दएवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरंयावत्कथिकंच, तत्रेत्वरंभरतैरावतेषुप्कथमपश्चिमतीर्थकरतीर्थथेष्वनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयं, यावत्कथिकं प्रव्रज्याप्रत्तिपत्तिकालादारभ्याप्राणोपरमात्, तच्च भरतैरावतभाविमध्यद्वाविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानां च साधूनवामवसेयं, तेषामुपस्थापनाया अभावात्, उक्तंच॥१॥ "सव्वमिणं सामाइय छेयाइविसेसियंपुन विभिन्नं । अविसेसं सामाइय चियमिह सामन्त्रसन्नाए॥ ॥२॥ "सावजजोगविरइत्ति तत्थ सामाइयं दुहातंच। इत्तरमावकहतिय पढमं पढमंतिमजिणाणं ॥ ॥३॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥" ननुचइत्वरमपिसामायिकंकरोमिभदन्त!सामायिकंयावज्जीवमित्येवंयादवदायुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते, ननुप्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिकं, सर्वत्रापि सावद्ययोगविरतिसद्भावात्, केवलं छेदादिविशुद्धिविशेषैर्विशेष्यमणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिकं सामायिकं छेदोपस्थापनंचपरमविशुद्धिवेशेषरूपसूक्ष्मसंपरायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्ती, यदिहिप्रव्रज्यापरित्यज्यतेतर्हितद्भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषावाप्तौ, उक्तं च॥१॥ "उन्निक्खमओ भंगो जो पुन तं चिय करेइ सुद्धयरं। सन्नमेत्तविसिलु सुहुमंपिव तस्स को भंगो? ॥ तथा छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं, तच्च द्विधा-सातिचारंनिरतिचारंच, तत्र निरतिचारं यदित्वसामायिकतवःशैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पारअश्वनाथतीर्थाद् वर्द्धमानतीर्थं संक्रामतः पञ्चयामप्रतिपत्तौ, सातिचारं यन्मूलगुणाधातिनः पुनव्रतोच्चारणं, उक्तंच॥१॥ “सेहस्स निरइयारं तित्थन्तरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥" 'उभयं चेति' सातिचारंनिरतिचारंच स्थितकल्पे' इति प्रथमपश्चिमतीर्थकरतीर्थकाले। तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धिर्यस्मिन् चारित्रेतत्परिहारविशुद्धिकं, तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदव्यतिरेकाच्चारित्रमप्येवमुच्यते । इहनवको गणः-चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नाः तथाऽपि कल्पत्वात् तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy