________________
६६
प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1१८५ द्वन्द्वः तस्मिन् तथा तपसि विनये च तथा सर्वासु समितिषु-ईर्यासमित्यादिषु सर्वासु च गुप्तिषुमनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारुचिः, किमुक्तं भवति ? -यस्य भावतो दर्शनाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम। मू. (१८६) अनभिगहियकुदिट्ठी संखेवरुइत्ति होइ नायव्यो।
अविसारओ पवयणे अनभिग्गहिओ य सेसेसु । वृ. संक्षेपरुचिमाह- ‘अनभिग्गहिय' इत्यादि, नाभिगृहीता कुत्सिता प्टिरय्येनासावनभिगृहीतकुष्टिः, अविशारदःप्रवचने जिनप्रणीते शेषेषुचकपिलादिप्रणीतेषु प्रवचनेषुअनभिगृहीतो - न विद्यते आभिमुख्येनोपादेयतया गृहीतं-ग्रहणमस्य इत्यनभिगृहीतः, पूर्वमनभिगृहीतकुष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेनपरदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, स इत्थंभूतः संक्षेपरुचिरिति ज्ञातव्यः ।। मू. (१८७) जो अत्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च ।
सद्दहइ जिनाभिहियं सो धम्मरुइत्ति नायव्वो । वृ.धर्मरुचिमाह-'जोअस्थिकाय' इत्यादि, यः खलुजीवोऽस्तिकायानांधर्मास्ति-कायादीनां धर्म-गत्युपष्टम्भकत्वादिरूपंस्वभावं श्रुतधर्मंचारित्रधर्मंच जिनाभिहितं श्रद्दधातिसधर्मरुचिरिति ज्ञातव्यः॥ मू. (१८८) परमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वावि ।
वावनकुदसणवजणा य सम्मत्तसद्दहणा॥ वृ. तदेवं निसर्गाधुपादिभेदाद् दशधा रुचिरूपं दर्शनमुक्तं, सम्प्रति यैर्लिङ्गैरिदमुत्पन्नमस्ति इति निश्चीयते तानि लिङ्गान्युपदर्शयन्नाह-‘परमत्थसंथवो वा' इत्यादि, परमाश्च-तात्त्विकाश्च तेऽर्थाश्च-जीवादयस्ते परमार्थः तेषु संस्तवः-परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदा- विगमायाभ्यास इतियावत्, वाशब्दः समुच्चये, सुष्ठु-सम्यग्रीत्या दृष्टाः परमार्थाः-जीवादयो यैस्ते सुदृष्टपरमार्थाः तेषां सेवना-पर्युपास्तिः सुदृष्टपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात्, वाशब्दोऽ- नुक्तसमुच्चये, यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः समुच्चये, तथा 'वावन्नकुदंसणत्ति' दर्शनशब्दः- प्रत्येकमभिसंबध्यते, व्यापन्न-विनष्टं दर्शनं येषांत व्यापत्रदर्शनाः-निह्नवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः-शाक्यादयस्तेषां वर्जनं व्यापनकुदर्शनवर्जनम्, 'सम्मत्त सद्दहणा' इति सम्यकत्वश्रद्धानं, एतैः परमार्थसंस्तवादिभिः सम्यकत्वमस्तीति श्रद्धीयते इत्यर्थः । मू. (१८९) निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य।
उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ॥ ___ वृ.अस्य च दर्शनस्याचारा अष्टौ, ते च सम्यक् परिपालनीयाः, तदतिक्रमेण दर्शनस्याप्यतिक्रमभावात्, अतस्तानुपदर्शयितुमाह-'निस्संकिय' इत्यादिशङ्कनं शङ्कितं, देशशङ्का सर्वशङ्का चेत्यर्थः, निर्गतंशङ्कितंयस्मादसौ निःशङ्कितः, देशर्वसङ्कारहित इतिभावार्थः, तत्रदेशशङ्का-समाने जीवत्वे कथमेको भव्यः अपरस्त्वभव्य इति?, सर्वशङ्का-प्राकृतनिबन्धत्वात्सकलमेवेदं प्रवचनं परिकल्पितं भविष्यतीति, नचेयं देशशङ्का सर्वशङ्का वा युक्ता, यत इह द्विविधा भावाः, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org