________________
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१७६
वृ. 'निसग्गुवएस' इत्यादि, अत्र रुचिशब्दः प्रत्येकमभिसंबध्यते, ततो निसर्गरुचिरिति द्रष्टव्यं तत्र निसर्गः - स्वभावः तेन रुचिः - जिनप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः, उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचिः - उक्तस्वरूपा यस्य स उपदेशरुचिः, आज्ञा - सर्वज्ञवचनात्मिका तस्यां रुचिः - अभिलाषो यस्य स आज्ञारुचिः, जिनाज्ञैव मे तत्त्वं न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिरिति भावार्थः,
w
६४
'सुत्तबीयरुइमेवत्ति' अत्रापि रुचिशब्दः प्रत्येकमभिसंबध्यते, सूत्रम् - आचारङ्गाद्यङ्गप्रविष्टं अङ्गबाह्यम्-आवश्यकदशवैकालिकादि तेन रुचिर्यस्य स तथा, सूत्रमाचारादिकमङ्गप्रविष्यमङ्गबाह्मावश्यकादिकमधीयानो यः सम्यकत्वमवगाहते प्रसन्नप्रसन्नतराध्यवसायश्च भवति स सूत्ररुचिरिति भावार्थः, बीजमिव बीजं - यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये,
'अहिगमवित्थाररुइत्ति' अत्रापि रुचिशब्दस्य प्रत्येकमभिसंबन्धः, अधिगमरुचिर्विस्ताररुचिश्च तत्राधिगमो - विशिष्टं परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः, विस्तारोव्यासः सकलद्वादशाङ्गस्य नयैः पर्यालोचनमिति भावः, तेनोपबृंहिता रुचिर्यस्य स विस्ताररुचिः,
'किरियासंखेव धम्मरुइत्ति' रुचिशब्दस्यात्रापि प्रत्येकं संबन्धात् क्रियारुचिः संक्षेपरुचिर्धर्मरुचिरिति द्रष्टव्यं तत्र क्रिया सम्यक्संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः, संक्षेपः- संग्रहः तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स संक्षेपरुचिः
धर्मे अस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिरिति गाथासंक्षेपार्थः ॥ मू. (१७७) भूयत्येणाहिगया जीवाजीवे य पुन्नापावं च ।
सहसंमुइया आसवसंवरे य रोएइ उ निसग्गो ।।
वृ. व्यासार्थं तु सूत्रकृदेव स्वत आह- 'भूयत्थेण' इत्यादि, 'भूयत्थेण' इति भावप्रधानो निर्देशः, ततोऽयमर्थः - भूतार्थत्वेन - सद्भूता अमी पदार्था इत्येवंरूपेण यस्याधिगताः परिज्ञाता जीवाजीवाः पुण्यं पापमा श्रवं संवरः चशब्दद् बन्धादयश्च, कथमधिगताः ? इत्याह- 'सहसम्मुइआ' इति आर्षत्वाद् विभक्तिलोपाच्च सहसंमत्या सह-आत्मना या संगता मतिः सा सहसंमतिः तया, किमुक्तं भवति ? - परोपदेशनिरपेक्षया जातिस्मरणप्रतिभादिरूपया मत्या, न केवलमधिगताः, किन्तु तान् जीवादीन् पदार्थान् वेदयतेऽनुरोचयति च तत्त्वरूपतयाऽऽत्मसात्परिणामयति चेति भावः, एष निसर्गरुचिर्विज्ञेय इति शेषः । अमुमेवार्थं स्पष्टतरमभिधत्सुराहयू. (१७८)
जो निदिट्ठे भावे चउव्विहे सद्दहाइ सयमेव ।
एमेव नन्नहत्तिय निसग्गरुइत्ति नायव्वो ॥
वृ. 'जो जिनदिट्ठे भावे' इत्यादि, यो जिनध्ष्टान् भावान् द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुर्विधान् स्वयमेव-उपदेशनिरपेक्षश्रः श्रद्दधाति, केनोल्लेखेन श्रद्दधाति ?, तत आह-'एवमेव एतत्-जीवादि यथा जिनैर्दष्टं नान्यथा इति, चः समुच्चये, एष । निषर्गरुचिरिति
ज्ञातव्यः ॥
मू. (१७९)
Jain Education International
एए चेव उ भावे उवदिट्ठे जो परेण सद्दहइ । छउमत्थेण जिनेन व उवएसरुइत्ति नायव्वो ।
For Private & Personal Use Only
www.jainelibrary.org