________________
६१
पदं-१, उद्देशकः-, द्वारं
पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योपमायुषो द्विगव्यूतप्रमाणशरीरोच्छ्रया वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाःषष्ठभक्तातिक्रमेआहारग्राहिणोअष्टावंशत्यधिकशतसंख्यपृष्ठकरण्डकाश्चतुःषष्टिदिनान्यपत्यपालकाः, आह च॥१॥
“हरिवासरम्मएसुंआउपाणं सरीरमुस्सेहो।
पलिओवमाणि दोन्नि उ दोन्नि उ कोसुस्सिया भणिया। ॥२॥ छट्ठस्स य आहारो चउसद्विदिणाणि पालणा तेसि ।
पिट्ठकरंडाण सयं अट्ठावीसं मुणेयव्वं ॥" । पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु त्रिपल्योपमायुषो गव्यतत्रयप्रमाणशरीरोच्छ्रयाः समचतुरस्रसंस्थाना वज्रर्षभनाराचसंहननिनः षट्पञ्चाशदधिकशतद्वयप्रमाणपृष्ठकरण्डका अष्टमभक्तातिक्रमाहारिण एकोनपञ्चाशद्दिनान्यपत्यपालकाः, तथा चोक्तम्॥१॥ “दोसुवि कुरूसु मणुया तिपल्लपरमाउणो तिकोसुच्चा।
पिट्टिकरंडसयाइं दो छप्पन्नाईमणुयाणं॥ ॥२॥ सुसमसुसमानुभावं अणुभवमाणाणऽवच्चगोवणया ।
अउणापन्नदिणाइं अट्ठमभत्तस्समाहारो॥" एतेषु सर्वेष्वपि क्षेत्रेष्वन्तरद्वीपेष्विव मनुष्याणामुपभोगाः कल्पद्रुमसंपादिताः, नवरमन्तरद्वीपापेक्षया पञ्चसु हैमवतेषु पञ्चसु हैरण्यवतेषु मनुष्याणामुत्थानबलवीर्यादिकं कल्पपादपफलानामास्वादोभूमेर्माधुर्यमित्येवमादिकाभावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्याः, तेभ्योऽपि पञ्चसु हरिवर्षेषु पञ्चसु रम्यकवर्षेषु अनन्तगुणाः, तेभ्योऽपि पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु अनन्तगुणाः, तदेवमुक्ता अकर्मभूमकाः । संप्रतिकर्मभूमकप्रतिपादनार्थमाह
मू. (१६६) से किंतं कम्मभूमगा?, कम्मभूमगा पन्नरसविहा पं०, तं०-पंचहिं भरहेहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं, ते समासओ दुविहा पं०, तं०-आ रियाय मिलिक्खूय, से किंतं मिलिक्खू ?, मिलिक्खू अनेगविहा पं०, तं०_ -सगा जवणा चिलाया सबरबब्बरमुरंडोटभडगनिण्णगपक्कणिया कुलक्खगोंडसिहलपारसगोधा कोंचअंबडइदमिलचिल्ललपुलिंदहारोसदोबवोक्काणगन्धा हारवा पहलियअज्झलरोमपासपउसा मलया य बंधुया य सूयलिकोंकणगमेयपल्हवमालव मग्गर आभासिआ कणवीर ल्हसिय खसा खासियणेदूर मोंढ डोंबिल गलओस पओस कक्केय अक्खाग हणरोमग हूणरोमग भरु मरुय चिलाय वियवासी य एवमाइ, सेत्तं मिलिक्खू।
वृ.अथ के ते कर्मभूमकाः?, सूरिराह कर्मभूमकाः पञ्चदशविधाः प्रज्ञप्ताः, तच्च पञ्चदशविधत्वं क्षेत्रभेदात्, तथाचाह-‘पञ्चहिं भरहेहिं' इत्यादि, पञ्चभिर्भरतैः पञ्चभिरैरवतैः पञ्चभिर्भहाविदेहैर्भिद्यमानाः पञ्चदशविधा भवन्ति, ते च पञ्चदशविधा अपि समासतो द्विविधाः प्रज्ञप्ताः, -आर्या म्लेच्छाश्च, तत्र आराद् हेयधर्मेभ्यो याताः--प्राप्ता उपादेयधमैरित्यार्याः, “पृषोदरादयः" इतिरूपनि-पत्तिः, म्लेच्छाः-अव्यक्तभाषासमाचाराः, "म्लेच्छ अव्यक्तायांवाचि" इति वचनात्, भाषाग्रहणं चोपलक्षणं, तेन शिष्टाऽसंमतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यं ।
तत्राल्पवक्तव्यत्वात् प्रथमतो म्लेच्छवक्तव्यातामाह-‘से किं तं' इत्यादित, अथ के ते
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org