________________
पदं-१, उद्देशकः-, द्वार
_____ ५७ आहासिया वेसाणिया नंगोला हयकन्ना गयकन्ना गोकन्ना सक्कुलिकन्नाआयंसमुहा मेंढमुहा अयोमुहा गोमुहा आसमुहाहत्थिमुहा सीहमुहावग्घमुहा आसकन्ना हरिकन्ना अकन्ना कण्णपाउरणा उक्कामुहा मेहमुहा विजुमुहा विजुदंता घणदंता लट्ठदंता गूढदंता सुद्धदंता । सेत्तं अंतरदीवगा।
से किंतं अकम्मभूमगा?, तीसविहा पं०, पंचहिं हेमवएहिं पंचहिं हिरण्णवएहिं पंचहिं हरिवासेहिं पंचहिं रम्मगवासेहिं पंचहिं देवकुरूहिं पंचहिं उत्तरकुरूहिं । सेत्तं अकम्मभूमगा।
वृ. अत्रापि संमूर्छिममनुष्यविषये प्रवचनबहुमानतः शिष्याणामपि च साक्षाद् भगवतेदमुक्तमिति बहुमानोत्पादनार्थमङ्गान्तर्गतमालापकं पठति-'कहिणं भन्ते' इत्यादि, सुगमं, नवरं 'सव्वेसु चेव असुइट्ठाणेसुत्ति' अन्यान्यपि यानि कानिचिद् मनुष्यसंसर्गवशादशुचिभूतनि स्थानानि तेषु सर्वेष्विति । उक्ताः संमूर्छिममनुष्याः, अघुना गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह-'कम्मभूमगा' इतिकर्म-कृषिवाणियादिमोक्षानुष्ठानंवा कर्मप्रधानाभूमिर्येषांतेकर्मभूमाः आर्षत्वात्समासान्तोऽप्रत्ययः कर्मभूमाएव कर्मभूमकाः, एवमकर्मा यथोक्तकर्मविकला भूमिर्येषां तेअकर्मभूमाः ते एवअकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः तद्गता अन्तरद्वीपगाः, “अस्ति पश्चानुपूर्वी" इति न्यायख्यापनार्थं प्रथमतोऽन्तरद्वीपगान्प्रतिपादयति-‘से किंतं' इत्यादि सुगम, नवरमष्टाविंशतिविधा इतियाशा एवयावप्रमाणा यावदपान्तराला यन्नामानोहिमवत्पर्वतपूर्वापरदिग्व्यवस्तिताःअष्टाविंशतिविधाअन्तरद्वीपास्तादशा एव तावत्प्रमाणा तावदपान्तरालास्तन्नामान एव शिखरिपर्वतपूर्वापरदिग्व्यवस्थिता अपि, ततोऽत्यन्तसहशतया व्यक्तिभेदमनपेक्ष्यान्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तज्जातमनुष्या अप्यष्टाविंश-तिविधा उक्ताः।
तानेवनामग्राहमुपदर्शयति-तंजहा एगोरुया' इत्यादि, एते सप्तचतुष्काः, अष्टाविंशतिसंख्यत्वात्, एतेच प्रत्येकं हिमवति शिखरिणि च, तत्र हिमवद्गतास्तावद्भाव्यन्ते-इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनोयोजनशतोच्छ्रयपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टव) नानावर्णविशिष्टद्युतिमणिनिकरपरिमण्डितोभयपार्श्वः सर्वत्र तुल्यविस्तारो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभितो वज्रमयतलविविधमणिकनकमण्डिततटभागदशयोजनावगाढपूर्वपश्चिमयोजनसहनायामदक्षिणोत्तरपञ्चयोजनशतविस्तारः पद्मदशोभितशिरोमध्यभागः सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः,
तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायाश्च दिशिप्रत्येकं द्वेद्वेगजदन्ताकारे दंष्ट्रेविनिर्गते, तत्रऐशान्यां दिशियाविनिर्गतादंष्ट्रातस्यां हिमवतः पर्यन्तादारभ्य त्रीणियोजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे योजनशतत्रयायामविष्मकम्भः किञ्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनुःशतप्रमाणविष्कम्भया द्विगव्यूतोच्छ्रितया पद्मवरवेदिकया सर्वतः परिमण्डितः,
तस्याश्च पद्मवरवेदिकाया वर्णकोजीवाभिगमटीकायामिव वेदितव्यः,साऽपिच पद्मवरवेदिका सर्वतः सामस्त्येन वनखण्डपरिक्षिप्ता, वनाच्च वनखण्डस्यायं विशेषः-प्रायो बहूनां समानजातीयानामुत्तमानांमहीरुहाणां समुदायोवनं, यथाअसोकवनंचम्पकवनमिति, अनेकजाती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org