SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५६ प्रज्ञापनाउपाङ्गसूत्रं-१- १/-/-/१६३ जोणिपमुहसयसहस्सा भवन्तीति मक्खायं । वृ. अथ के ते खचरपञ्चेन्द्रियतैर्यग्योनिकाः ?, सूरिराह - चतुर्विधाः प्रज्ञप्ताः, - 'चम्मपक्खी' इत्यादि, चर्मात्मकौ पक्षौ चर्मपक्षौ तौ विद्येते येषां ते चर्मपक्षिणः, लोमात्मकौ पक्षी लोमपक्षी तद्वन्तो लोमपक्षिणः, तथा गच्छतामपि समुद्गकवत् स्थितौ पक्षौ समुद्गकपक्षौ तद्वन्तः समुद्गकपक्षिणः, विततौ नित्यमनाकुञ्चितौ पक्षौ येषां विततपक्षौ तद्वन्तो विततपक्षिणः । 'से किं तं' इत्यादि, अथ के ते चर्मपक्षिणः ?, चर्मपक्षिणोऽनेकविधाः प्रज्ञप्ताः, तद्यथावल्गुली इत्यादि, एते च भेदा लोकतोऽवसेयाः, 'जे यावन्ने तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः - एवंरूपास्ते चर्मपक्षिणो द्रष्टव्याः, उपसंहारमाह- 'सेत्तं चम्मपक्खी' । लोमपक्षिप्रतिपादनार्थमाह- 'से किं तं' इत्यादि, एते च लोमपक्षिभेदा लोकतो वेदितव्याः । समुद्गकपक्षिप्रतिपादनार्थमाह- 'से किं तं' इत्यादि पाठसिद्धं, एवं विततपक्षिसूत्रमपि । 'ते समासओ' इत्यादि प्रागवद् भावनीयं, एतेषां द्वादश जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि अमीषामपि शरीरादिषु द्वारेषु चिन्तनं स्त्रीपुनंपुंसकानामल्पबहुत्वं च जीवाभिगमटीकातः प्रतिपत्तव्यं, इह तु ग्रन्थगौरवभयान्न लिख्यते । अधुना विनेयजनानुग्रहाय द्वीन्द्रियप्रभृतिजातिकुलकोटिशतसहस्रसंख्याप्रपितादिका संग्रहिणीगाथामाह - सत्तट्टजाइकुलकोडिलक्ख नव अद्धतेरसाइं च । दस दस य होंति नवगा तह बारस चेव बोद्धव्या ॥ मू. (१६४) वृ. अत्र द्वीन्द्रियेभ्य आरभ्य यथासंख्येन संख्यापदयोजना, सा चैवं द्वीन्द्रियाणां सप्त जातिकुलकोटिलक्षाणि त्रीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव, जलचरपञ्चेन्द्रियाणामत्रयोदशानि, चतुष्पदस्थलचरपञ्चेन्द्रियाणां दश, उरः परिसर्पस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचरपञ्चेन्द्रियाणां नव, खचरपञ्चेन्द्रियाणां द्वादशेति । मू. (१६५) सेत्तं खहयरपंचिंदियतिरिक्खजोणिया, सेत्तं पंचिंदियतिरिक्खजोणिया । वृ. उपसंहारमाह-'सेत्तं' इत्यादि । तदेवमुक्ताः पञ्चेन्द्रियतैर्यग्योनिकाः । सम्प्रति मनुष्यानभिधित्सुराह मू. (१६६ ) से किं तं मणुस्सा ?, मणुस्सा दुविहा पं०, तं० - संमुच्छिममणुस्सा य गब्भवक्कं तियमणुस्सा य, से किं तं संमुच्छिममणुस्सा ?, कहि णं भंते! संमुच्छिममणुस्सा संमुच्छंति ?, गोयमा अंतो मणुस्साखित्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसुतीसाए अकम्मभूमीसु छपन्नाए अंतरदीवएसु गब्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपुग्गल परिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइट्ठाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति, अंगुलस्स असंखेज्जइभागमेत्ताए ओगाहणाए असन्नी मिच्छदिट्ठी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति । से त्तं संमुच्छिममणुस्सा ॥ से किं तं गब्भवक्कंतियमणुस्सा ?, गब्भवक्कंतियमणुस्सा तिविहा पं०, तं०-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, से किं तं अंतरदीवगा ?, अंतरदीवगा अट्ठावीसविहा पं०, तं - एगेरुया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy