________________
३०
प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-२१
सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथिवीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
मू. (२२) से किं तं बादरपुढविकाइया?, बादरपुढविकाइया दुविहा पन्नत्ता, तंजहासहबादरपुढविकाइया य खरबादरपुढविकाइया य।
वृ. अथ के ते बादर पृथ्विीकायिकाः ? सूरिरहि-बादर० द्विविधा प्रज्ञप्ताः, तद्यथाश्लक्ष्णबादरपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च, तत्र श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुपृथिवी तदात्मका जीवा अप्युपचा रतः श्लक्ष्णास्ते च ते बादरपृथिवीकायिकाश्च श्लक्ष्णबादरपृथिवी- कायिकाः, अथवा श्लक्ष्णा च सा बादरपृथिवीच २ सा कायः-शरीरं येषां ते श्लक्ष्णबादरपृथिवीकायाः त एव स्वार्थिकेकप्रत्ययविधानात् श्लक्ष्णबादरपृथिवीकायिकाः,
चशब्दो वक्ष्यमाणस्वगतानेकभेदसूचकः, खरा नाम पृथिवीसङ्घातविशेषं काठिन्यविशेष चापन्नवा तदात्मका जीवाअपि खरास्तेचतेबादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाः, अथवा पूर्ववप्रकारान्तरेण समासः, चशब्द स्वगतवक्ष्यमाणचत्वारिंशभेदसूचकः।।
मू. (२३) से किंतंसण्हबायरपुढविकाइया?, सण्हबायरपुढविकाइया सत्तविहा पन्नता, तंजहा-किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिद्दमत्तिया सुकिल्लमत्तिया पाण्डुमत्तिया पनगमत्तिया, सेत्तं सण्हबादरपुढविकाइया।
वृ. अथ के ते श्लक्ष्णबादरपृथिवीकायिकाः, सूरिराह-श्लक्ष्णबादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः, तदेव सप्तविधत्वंतद्यथेत्यादिनोपदर्शयति, कृष्णमृत्तिकाः-कृष्णमृत्तिकारूपा एवं नीलमृत्तिकालोहितमृत्तिका हारिद्रमृत्तिका शुक्लमृत्तिकाः, इत्थं वर्णभेदेन पञ्चविधत्वमुक्तं, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा,
तदात्मकाजीवाअप्यभेदोपचारात्पाण्डुमृत्तिकेयुक्ताः, पनगमट्टियत्ति नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपोजलमलापरपर्यायः पङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, निगमनमाह-सेत्तं सण्हबायरपुढविकायइ, सुगमम् ॥
मू. (२४) से किंतंखरबायरपुढविकाया?, खरबायरपुढविकाइया अनेगविहा प० तं०
वृ.अथ केतेखरबादरपृथिवीकायिकाः?, सूरिराह-खरबादरपृथिवीकायिकाअनेकविधाः प्रज्ञप्ताः, चत्वारिंशभेदा मुख्यतया प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशभेदानाह-'तंजहा पुढवी य'इत्यादि गाथाचतुष्ट्यं । मू. (२५) पुढवी य सक्करा वालुया य उवले सिला य लोणूसे ।
अय तंब तउय सीसय रूप्प सुवन्ने य वइरे य १४॥ वृ.पृथिवीतिभामा सत्यावामावत्शुद्धपृथिवीचनदीतटभित्त्यादिरूपा, चशब्दउत्तरभेदापक्षया समुच्चये १ शर्करा-लघूपलशकलरूपा २ वालुका-सिकताः ३ उपलः-टङ्काधुपकरणपरिकर्मणायोग्यः पाषाणः ४ शिला-घटनयोग्या देवकुलपीठाधुपयोगी महान् पाषाण विशेषः ५ लवणं-सामुद्रादि६ ऊषो यद्वशादूषरं क्षेत्रम्७ अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानिप्रतीतानि १३ वज्रो-हीरकाः १४ । मू. (२६) हरियाले हिंगुलए मनोसिला सासगंजणपवाले ।
अब्भपडलब्भवालुय बायरकाए मणिविहाणा ८ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org