________________
पदं - ११, उद्देशक:-, द्वारं
वृ. अल्पबहुत्वचिन्तायां सर्वस्तोकाः सत्यभाषकाः, इह यः सम्यगुपयुज्यसर्वज्ञमतानुसारेण वस्तुप्रतिष्ठानबुध्या भाषते स सत्यमाषकतस्ते च पृच्छाकाले कतिपया एव लभ्यन्ते इति सर्वस्तोकाः, तेभ्योऽसङ्घयेयगुणाः सत्यमृषाभाषकाः, बहूनां प्रायो यथा तथा वा सत्यामृषाभाषणसम्भवात्, लोके तथा दर्शनात्, तेभ्योऽसङ्घयेयगुणा मृषाभाषकाः, क्रोधाभिभूतानां परवञ्चनाद्यभियुक्तानां च प्रभूततराणामुपलम्भात् तेषां च मृषाभावकत्वात्, तेभ्योऽसङ्घयेयगुणाः असत्यामृषाभाषकाः द्वीन्द्रियादीनामप्यसत्यामृषाभाषकत्वात्, तेभ्योऽनन्तगुणाः अभाषकाः, सिद्धानामनेकेन्द्रियाणां चानन्तत्वात् ॥
पदं – ११ – समाप्तम्
-
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे एकादशपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता ।
२७९
पदं - १२ - "शरीरं"
वृ. तदेवं व्याख्यातमेकादशं पदं, इदानीं द्वादशममारभ्यते-अस्य चामभिसम्बधःइहानन्तरपदे जीवानां सत्यादिभाषाविभागोपदर्शनं कृतं, भाषा च शरीरारयत्ता, 'शरीरप्रभवा भाषे' त्यत्रैव प्रतिपादितत्वात्, अन्यत्राप्युक्तं- 'गिण्हइय काइएणंनिस्सइ तह वाइएण जोएण' मिति, तत्र शरीरप्रविभागप्रदर्शनार्थमिदमारभ्यते, तत्र चेदमादि सूत्रम्
मू. (४००) कति णं भंते! सरीरा पन्नत्ता ?, गो० ! पंच सरीरा पं०, तं०-ओरालिए वेउव्विए आहारए तेयए कम्मए, नेरइयाणं भंते! कति सरीरया पन्नत्ता ?, गो० ! तओ सरीरया पं०, तं०-वेउव्विए तेयए कम्मए, एवं असुरकुमाराणवि जाव थणियकुमाराणं ।
पुढविकाइयाणं भंते! कति सरीरया पं० ?, गो० ! तओ सरीरया पं०, तं०-ओरालिए तेयए कम्मए, एवां वाउकाइयवज्जं जाव चउरिंदियाणं, वाउकाइयाणं भंते! कति सरीरया पं० गो० ! चत्तारि सरीरया, पं०, तं० - ओरालिए वेउव्विते तेयए कम्मए, एवं पंचिंदियतिरक्खजोणियाणवि,
मणुस्साणं भंते! कति सरीरया पं० ?, गो० ! पंच सरीरया पं० तं० - ओरिलिए वेउव्विते आहारए तेयए कम्मए, वाणमंतरजोइसियवेमामियाणं, जहा नारगाणं ।
Jain Education International
वृ. 'कइ णं भंते! सरीरा पन्नत्ता' इत्यादि, उत्पत्तिसमयादारभ्य प्रतिक्षणं शीर्यन्ते इति शरीराणि तानि भदन्त ! कति-कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, प्रज्ञप्तानि, भगवानाह - पञ्च शरीराणि प्रज्ञप्तानि तान्येव नामत आह- 'ओरालिए' इत्यादि, अमीषां शब्दार्थमात्रमग्रे वक्ष्यामस्तथाऽपि स्थानाशून्यार्थं किञ्चिदुच्यते - उदारं- प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात्, अथवा ओरालं नाम विस्तरवतु, विस्तरवत्ता चास्यवस्थितस्वभावस्य सातिरेकयोजनसहस्रमानत्वातच्, वैक्रियं चैतावदवस्थितप्रमाणं न लभ्यते,उत्कर्षतोऽप्यवस्थितप्रमाणस्य पञ्चधनुःशतप्रमाणत्वात्, तच्च तावत्प्रमाणं सप्तम्यां नान्यत्र, यत्तूत्तरवैक्रियं योजनलक्षप्रमाणं न तदवसअथितमाभववर्त्तित्वाभावात्, ततो न तदपेक्षा, आह च चूर्णिकृत् -
" ओरालं नाम वित्थरालं विसालंति जं भणियं होइ, कहं ?, साइरेगजोयण
For Private & Personal Use Only
www.jainelibrary.org