________________
पदं-११, उद्देशकः-, द्वारं
२७५
तथास्वाभाव्यात् द्वावुपयोगावेकस्मिन् समये न स्यातां, ये तु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव, तथादर्शनात्, तथाहि-एकापि नर्तकी भ्रमणादिनृत्तंविदधाना एकस्मिन्नपि समयेहस्तपादादिगता विचित्राः क्रियाः कुर्वती श्यते, सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये उत्पादव्ययावुपजायेते, एकस्मिन्नेव च समये सातपरिशाटावपि, ततो न कश्चिद्दोषः, आह च भाष्यकृत्॥१॥ “गहणनिसग्गपयत्ता परोप्परकविरोहिणो कहं समये?।
समए दो उपओगा न होज किरियाण को दोसो ? ॥" इति, तृतीयेपुनःसमयेतानेवद्वितीयसमयोपात्तान्पुद्गलान्मुञ्चतिनपुनरन्यानादत्ते, उत्कर्षण वसङ्ख्येयान्यावन्निरनन्तरंगृह्णाति, तथा चाह-उत्कर्षेणासङ्खयेयान्समयान्गृह्णातिइतियोगः, कदाचित्परोऽसङ्खयेययैः समयैरेकं ग्रहणं मन्येत तत आह-'अनुसमयं प्रतिसमयं गृह्णाति, तदु कदाचिद्विरहितमपिव्यवहारतोऽनुसमयमित्युच्येतततस्तदाशयव्यवच्छे-दार्थमाह-अविरहितं, एवं निरन्तरं गृह्णति, तत्राद्ये समये ग्रहणमेव न निसर्गः, अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये च मोक्ष एव, भाषाभिप्रायोपरमतो ग्रहणासम्भवात्, शेषेषु द्वितायादिषु समयेषु ग्रहणनिसर्गौ युगपत्करोति
'वाणंभंते!जाइंदव्वाइंभासत्ताएगहियाइंनिसरइ' इत्यादिप्रश्नसूत्रसुगम, निर्विचनमाहसान्तरंनिसृजति नो निरन्तरं, इयमत्र भावना-इह तावत् ग्रहणं निरन्तरमुक्तं, तथा चानन्तरसूत्रं 'अणुसमयविरहियं निरंतरं गेण्हइ' इति ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तरं प्रतिपत्तव्यो, गृहीतस्यावश्यमनन्तरसमये निसर्गात्, ततो यदुक्तं सान्तरं निसृजतिनोनिरन्तर'मिति, तत्र ग्रहणापेक्षया द्रश्टव्यं, तथाहि-यस्मिन् समये यानि भाषाद्रव्याणि गृह्णातिन तानि तस्मिन्नेव समये मुञ्चति, यथा प्रथमसमये गृहीतानिन तस्मिन्नेवप्रथमसमये मुञ्चति किन्तुपूर्वस्मिन् पूर्वस्मिन् समये ग-हीतानि उत्तरस्मिन् समये, ततो ग्रहणपूर्वो निसर्गोऽगृहीतस्य निसर्गायोगात् इति सान्तरं निसर्ग उक्तः, आह च भाष्यकृत॥१॥ “अनुसमयमनंतरियं गहणं भणियं ततो विमोक्खोऽवि।
जुत्तो निरन्तरोविय भणइ कहं संतरो भणिओ? ॥ ॥२॥ गहणावेक्खाए तओ निरंतरंजंमिजाइं गहियाई।
नउ तम्मिचेव निसरइजह पढमे निसिरणं नत्थि॥ निसिरिजइ नागहियं गहणंतरियंति संतरं तेणं।" इति,
एतदेव सूत्रकृदपि स्पष्टयति-संतरंनिसरमाणोएगेणंसमएणंगेण्हइएगेणंसंएणंनिस्सरई' इति, एकेन-पूर्वपूर्वरूपेणसमयेनगृह्णातिएकेन-उत्तरोत्तररूपेण समयेननिसृति, अथवाग्रहणापेक्षं निसर्गभावात् एकेन-आधेन समयेन गृह्णात्येव न निसृजत्यगृहीतस्य निसर्गाभावात्, तथा एकेन-पर्यवसानसमयेन निसृजत्येव न गृह्णाति, भाषाभिप्रायोपरमतो ग्रहणासम्भवात्, शेषेषु तु द्वितीयादिषु समयेषु युगपद् ग्रहणनिसर्गौ करोति, तौ च निरन्तरं जघन्यतो द्वौ समयौ उत्कर्षतोऽसङ्खयेयान्समयान्, एतदेवाह-एतेणंगहणनिसरणोवाएणंजहन्नेणंदुसमइयंउक्कोसेणं असंखेजसमइयं अंतोमुहुत्तिगंगहणनिसिरणं करेइ' इति, ‘जीवेणंजाइंदव्वाई' इत्यादिप्रश्नसूत्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org