SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पदं-११, उद्देशकः-, द्वार २६९ विसंवादेन चोत्पन्नविगतमिश्रिता ३, तथा प्रभूतानां जीवतां स्तोकानां च मृतानां शङ्खशनकादीनामेकत्र राशौ दृष्टेयदा कश्चिदेवंवदति-अहोमहान्जीवराशिरयमितितदासाजीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् ४, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति-अहो महानयं मृतोजीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु मृषात्वात् ५, तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६, तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वाकेनचित्प्रत्येकवनस्पतिना मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७, तथा प्रत्येकवनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्यप्रत्येकवनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८, तथा अद्धा-कालः, सचेह प्रस्तावात् दिवसो रात्रिर्वा परिगृह्यते, समिश्रितो ययासाऽद्धामिश्रिता, यथा कश्चित्कञ्चन त्वरयन् दिवसे वर्तमान एव वदति-उत्तिष्ठ रात्रिर्यातेति, रात्रौ वा वर्तमानायामुत्तिष्ठोद्गतः सूर्यइति९, तथा दिवसस्यरात्रेर्वा एकदेशोऽद्धाद्धा सामिश्रिता यया साअद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्तमानायां कश्चित् कञ्चन त्वरयन् एवं वदति-चल मध्याह्नीभूतं इति । असत्यामृषा द्वादशविधा, तद्यथामू. (३८७) आमंतणि १ आणमणी २ जायणि ३ तह पुच्छणी य ४ पन्नवणी ५। पच्चक्खाणी ६ भासा भासा इच्छाणुलोमा, ७ य॥ वृ. 'आमंताणि' इति तत्र आमन्त्रणी हे देवदत्त इत्यादि, एषा हि प्रागुक्तसत्यादिभाषात्रयलक्षणविकलत्वान्न सत्या नापिमृषानापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्र भावना कार्या, आज्ञापनी कार्ये परस्य प्रवर्तनं, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३ पृच्छनी अविज्ञातस्य सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्वेचोदना ४ प्रज्ञापनी विनीतविनयस्य विनेयजनस्योपदेशदानं यथाप्राणिवधानिवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि, उक्तं च॥१॥ "पाणिवहाउ नियत्ता हवंति दीहाउया अरोगा यय एमाई पन्नत्ता पन्नवणी वीयरागेहिं ।।" ५ याचमानस्य प्रतिषेधवचनंप्रत्याख्यानी ६इच्छानुलोमा नाम यथा कश्चित्किञ्चित्कार्यमारभणाणः कञ्चन पृच्छति, स प्राह-करोतु भवान् मामाप्येतदभिप्रेतमिति ७। मू. (३८८) अणभिग्गहिया भासा ८ भासा य अभिग्गहमि बोद्धव्वा ९। .. ___ संसयकरणी भासा १० वोगड ११ अव्वोगडा चेव १२ ॥ वृ. अनभिग्रहा यत्र न प्रतिनियतार्थावधारणं, यथा बहुकार्येष्ववस्थितेषु कश्चित् कञ्चन पृच्छति-किमिदानीं करोमि?,सप्राह-यप्रतिभासते तत्कुर्विति ८अभिगृहीता प्रतिनियतार्थावधारणं, यथा इदभिदानी कर्तव्यमिदं नेति ९ संशयकरणी या वाक् अनेकार्थाभिधायितया परस्ट संशयमुत्पादयति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दोलवणवस्त्रपुरुषवाजिषु १० व्याकृत या प्रकटार्था ११ अव्याकृता अतिगम्भीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता वा अविभावितार्थत्वात् १२ । शेषं सुगमं, यावत् ‘कइणं भंते ! भासजाया इत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy