SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पदं-११, उद्देशकः-, द्वार २६५ समानपरिणामोऽसमानपरिणामसंतुलितःप्राधान्येन विवक्षित इति, तस्यानेकत्वभावात् बहुवचनं। ___'अहं भंते ! मणुस्सी'त्यादि, अत्रेदं संशयकारणं-इह सर्वं वस्तु त्रिलिङ्गं, तथाहिमृद्रूपोऽयमिति पुंल्लिङ्गता मृत्परिणतिरियं घटाकारा परिणतिरियमिति स्त्रीलिङ्गता, इदंवस्तित्वति नपुंसकलिङ्गता, तत्रैवंशबलरूपेवस्तुनि व्यवस्थिते कथमे कलिङ्गमात्राभिधायी शब्दस्तदभिधायी भवति, नखलुनरसिंहे सिंहशब्दोनरशब्दोवा केवलस्तदभिधायी भवति, अथच श्यतेतदभिधायितयाऽपि लोके व्यवहारस्ततः पृच्छति ‘सव्वा सा इत्थिवऊ' इति, सर्वासा एवंप्रकारा स्त्रीवाक्स्त्रीलिङ्गविशिष्टार्थप्रतिपादिका वाक्भवति?, काक्वा पाठात्प्रश्नार्थत्वावगतिः, भगवानाह-'हंता गोयमे' त्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-यद्यपि नाम शबलरूपं वस्तु तथाऽप्येष शाब्दो न्यायः-येन धर्मेण विशिष्टः प्रतिपादयितुमिष्यते सतप्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धर्मिणं प्रतिपादयति, यथा पुरुषत्वेशास्त्रज्ञत्वेदातृत्वे भोक्तृत्वे जनकतवेऽध्यापयितृत्वेच युगपद् व्यवस्थितेऽपि पुत्रः समागच्छन्तमवलोक्य पिता आगच्छतीति ब्रूते, शिष्यस्तु उपाध्याय इति, एवमिहापियद्यपि मानुषीप्रभृतिकंसर्वत्रिलिङ्गात्मकंतथापि योनिर्मूदुकत्वमस्थैर्यादिलक्षणंस्त्रीत्वमत्र प्रतिपादयितुमिष्टमिति ततः प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधाणं धर्मिणं प्रतिपादयतीति भवति सर्वासा स्त्रीवक, एवं वाग्नपुंसकवाचावपि भावनीये। _ 'अह भंते ! पुढवी' इत्यादि सुगम, नवरं 'आऊ' इति पुंल्लिङ्गता प्राकृतलक्षणवशात्, संस्कृते तु स्त्रीत्वमेव, 'अह भंते ! पुढवीति इत्थीआणवणी' इत्यादि, अथ भदन्त ! पृथिवीं कुरु पृथ्वीमानयेत्येवं स्त्रियां-स्त्रीलिङ्गे पृथिव्या आज्ञापनी एवमाऊ इति पुमाज्ञापनी धान्यमिति नपुंसकाज्ञापनी प्रज्ञापन्येषा भाषा नैषाभाषा मृषेति?, भगवानाह-हंता गो०!' इत्यादिसुगम, ___ 'अह भंते' इत्यादि, अथ भदन्त ! पृथिवी इति स्त्रीप्रज्ञापनी-स्त्रीत्वस्वरूपस्य प्ररूपणी एवंआऊ इति पुंप्रज्ञापनी धान्यमिति नपुंसकप्रज्ञापनी आराधनी-मुक्तिमार्गाप्रतिपनथिनी एषा भाषा नैषा भाषा मृषेति?, किमुक्तं भवति? -- नैवं वदतो मिथ्याभाषित्वप्रसङ्गः, भगवानाहआराधनी एषा भाषा, नषाभाषा मृषेति, शाब्दव्यवहारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात्, इह कियत् प्रतिपदं प्रष्टुं शक्यते ततोऽतिदेशेन पृच्छति 'इच्छेवं भंते !' इत्यादि, इतिः-उपदर्शने एवंशब्दः प्रकारे उपदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं पुंवतचनं नपुंसकवचनं वा वदति साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषानैषाभाषामृषेति?, भगवानाह-प्रज्ञापनी एषा भाषा,शाब्दव्यवहारानुसरणतोदोषाभावात्, अन्यथास्तिथे हि वस्तुन्यन्यथा भाषणं दोषः यदा तुयद्वस्तु यथावस्थितंतत् तथा भाषते, तदाको दोष इति? ॥तदेवं भाषाप्रतिपादनविषयाये केचनसन्देहास्ते सर्वेऽप्यपनीताः, सम्प्रति सामान्यतो भाषायाः कारणादि पिपृच्छिषुराह मू. (३७९) भासा णं भंते ! किमादीया किंपवहा किंसंठिया किं पज्जवसिया?, गो० ! भासा णं जीवादीया सरीरप्पभवा वजसंठिया लोगंतपज्जवसिया पन्नत्ता, वृ. 'भासाणंभंते ! किमाइया' इत्यादि, भाषा अवबोधबीजभूता, णमिति वाक्यालङ्कारे, किमादिका-उपादा नकारणव्यतिरेकेण किमादि:-मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो यस्याः सा किंप्रभवा, सत्यपि मौले कारणे पुनः कस्मात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy