SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २६४ प्रज्ञापनाउपाङ्गसूत्र-१-११/-1-1३७८ णं एसा भासा न एसा भासा मोसा?, हंता! गो०! पुढवीति इस्थिपन्नवणी आउत्ति पुमपन्नवणी धन्नेत्ति नपुंसगपन्नवणी आराहणी णं एसा भासा, न एसा भासा मोसा । इच्छेवं भंते इस्थिवयणं वापुमनवयणं वा नपुंसगवयणं वा वयमाणे पन्नवणीणं एसा भासाण एसा भासा मोसा?, हंता गो० ! इत्थिवयणं वा पुमवयणं वा नपुंसगवयणं वा वयमाणे पन्नवणी णं एसा भासा न एसा भासा मोसा॥ वृ.अथ भदन्त! मनुष्यो महिषोऽश्चो हस्ती सिंहो व्याघ्रो वृक एते प्रतीताः, द्वीपी-चित्रकविशेषः ऋक्षः-अच्छभल्लःतरक्षो-व्याघ्रजातिविशेषः परस्सरो-गण्डः श्रृगालो-गोमायु; बिडालो-मार्जारःशुनको-मृगदंशकोलशुनको मृगयाकुशलःश्वाशशकः-प्रतीतः कोकंतियालुङकी चित्रकः-प्रतीतः चिल्ललकः-आरण्यः पशुविशेषः, 'जे यावने तहप्पगारा' इति येऽपि चान्ये तथाप्परकारा एकवचनान्ता इत्यर्थः, सर्वा सा एकवाक्-एकत्वप्रतिपादिका वाणी, अयमत्र प्रश्नहेतुरभिप्रायः-इह वस्तु धर्मधर्मसमुदायात्मकं धमाश्च प्रतिवस्त्वनन्ताः मनुष्य इत्याधुक्तौच सकलं वस्तुधर्मधर्मिसमुदायात्मकंपरिपूर्णं प्रतीयते, तथा व्यवहारदर्शनात्, एकस्मिंश्चार्थे एकवचनं बहुषु बहुवचनं, अत्र बहवो धर्मा अभिधेयाः ततःकथमेकवचनं ?, अथ च दृश्यते लोके एकवचनेनपि व्यवहार इति पृच्छति-सर्वा सा एकत्वप्रतिपादिका वाग् भवति?, काक्वा चेदं पठ्यते ततः प्रश्नार्थत्वावगतिः, भगवानाह "हंता गोयमा!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-शब्दप्रवृत्तिरिह विवक्षाधीना, विवक्षा च तत्तत्प्रयोजनवशात् वक्तुःक्वचित् कदाचित् कथञ्चित् भवतीत्यनियता, तथाहि-स एवैकः परुषो यदाऽयं मे जनक इति पुत्रेण विवक्ष्यते तदा जनक इत्यभिधीयते, स एव यदा तेनैव मामध्यापयतीति विवक्ष्यतेतदातूपाध्याय इति, तत्रयदा उपसर्जनीभूतधर्माधर्मीप्राधान्येन विवक्ष्यते तदा धर्मिण एकत्वात् एकवचनं, धर्माश्च धर्मिण्यन्तर्गता इति परिपूर्णवस्तुप्रतीतिर्यथा त्वमिति, यदातूपसर्जनीभूतधर्मिणोधर्माः पाण्डित्यपरोपकारित्वमहादानदातृत्वादयः प्राधान्येन विवक्ष्यन्ते तदा धर्माणां बहुत्वादेकस्मिन्नापि बहुवचनं यथा यूयमिति, तत इहापि मनुष्य इत्यादावुपसर्जनीकृतधर्माधर्मी प्राधान्येन विवक्षित इतिभवति सर्वाप्येवंजातीया एकत्वप्रतिपादिका वाक् । 'अह भंते ! मणुस्सा' इत्यादि, अक्षरगमनिका प्राग्वत्, अत्रापीदं संशयकारणं-मनुष्यादयः शब्दा जातिवाचकाः, जातिश्च सामान्यं सामान्य चैकं ‘एकं नित्यं निरवयमक्रियं सर्वगं च सामान्य'- मितिवचनात, ततः कथमत्र बहुवचनं?, अथ च दृश्यते बहुवचनेनापिव्यवहार इति पृच्छति-सर्वासा बहुत्वप्रतिपादिका वाक्भवति?, काकवा पाठात् प्रश्नार्थत्वावगतिः अत्र भगवानाह-'हंता गोयमा!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-यद्यपि नामैते जातिवाचकाःशब्दाः तथापि जातिरभिधीयते समानपरिणामः, समानपरिणामश्चासमानपरिणामविनाभावी, अन्यथैकत्वापत्तितः समानत्वायोगात्, ततो यदा समानपरिणामोऽसमानपरिणामसंतुलितःप्राधान्येन विवक्ष्यतेतदाऽसमानपरिणामस्यप्रतिव्यक्ति भिन्नत्वात् तदभिधाने बहुवचनं, यथा घटा इति, यदा तु स एव एकः समानपरिणामः प्राधान्येन विवक्ष्यते इतरस्त्वसमान परिणाम उपसर्जनीभूतस्तदा सर्वत्रापि समानपरिणामस्य एकत्वात् तदभिधाने एकवचनं, यद्वा सर्वोऽपि घटः पृथुबृघ्नोदराद्याकार इति, अत्रापि मनुष्या इत्यादौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy