SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २३ पदं-१, उद्देशकः-, द्वारसंसारसमावन्नजीवपन्नवणा पन्नरसविहा पन्नत्ता, तंजहा तिथिसिद्धाअतिथिसिद्धा तित्थगरसिद्धाअतित्थगरसिद्धासयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिङ्गसिद्धापुरिसलिङ्गसिद्धा नपुंसकलिङ्गसिद्धा सलिङ्गसिद्धा अन्नलिङ्गसिद्धा गिहिलिङ्गसिद्धा एगसिद्धा अनेगसिद्धा। वृ. 'से किंत'मित्यादि, अथ का सा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञत्रापना ?, सूरिराह-अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना पञ्चदशविधाप्रज्ञप्ता, अनन्तरसिद्धानामुपाधिभेदतः पञ्चदशविधत्वात. तदेवपञ्चदशविधत्वं तेषामाह-'तंजहे'त्यादि, 'तद्यथेतिपञ्चदशभेदोपदर्शनसूचकं, तीर्थसिद्धाः तीर्यतेसंसारसागरोऽनेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनम्, तच्च निराधारं न भवति इति सङ्घः प्रथमगणधरो वा वेदितव्यः,उकतं च -"तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गो० अरिहा ताव नियम तित्थकरे, तित्थं पुन चाउव्वण्णो समणसङ्घो पढमगणहरो वे'ति, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं, तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वातस्मिन्ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धामरुदेवीप्रभृतयः, नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तथा तीर्थस्य व्यवच्छेदः सुविधिस्वाम्याद्यपान्तरेलेषु तत्र ये जातिस्मरणादिनाऽपवर्गमार्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः २, तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः ३ सामान्यकेवलिनःसन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः ४ तथा स्वयंबुद्धाः सन्तोये सिद्धास्ते स्वयम्वुद्धसिद्धाः ५, प्रत्येकबुद्धाः सन्तो ये सिद्धास्तेप्रत्येकबुद्धिसिद्धाः ६, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मर-णादिना बुद्धाः स्वयम्बुद्धा इति व्युत्पत्तेः, तेच द्विधा-तीर्थंकरास्तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकर- व्यतिरिक्तैरधिकारः, आह च नन्द्यध्ययनचूर्णिकृत्-तेदुविहासंयबुद्धा-तित्थयरा तित्थयरवइरित्ता य, इह वइरित्तेहिं अहिगारो' इति। प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य, प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यप्रत्ययसापेक्षा करकण्ड्वादीनांबोधिः, बहिःप्रत्ययमपेक्ष्य च ते बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च नन्धध्ययनचूर्णिकृत्-पत्तेयं-बाह्यं वृषभादिकं कारणभिसमीक्ष्यबुद्धाः, बहिष्प्रत्ययंप्रति बुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा' इति, स्वयम्बुद्धानामुपधि‘दशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यतस्तथोत्कर्षतश्च, तत्रजघन्यतो द्विविधः, उत्कर्षतो नवविधः प्रावरणवर्जः, उक्तंच “पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पाउरणवज्जो भवइ" इति, तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्गदेवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि च एकाकिविचरणसमर्थः इच्छा वा तस्य तथारूपा जायते तत एकाकी विहरति,अन्यथा गच्छवासेऽवतिष्ठते, अथपूर्वाधीतं श्रुतंतस्य न भवतितर्हिनियमाद्गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते गच्छंचावश्यं न मुञ्चति, तथा चोक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy