________________
२२
प्रज्ञापनाउपाङ्गसूत्रं - १- १/-/-/१३
गन्धौ पञ्चापि रसाः प्राप्यन्ते, ततोऽ-वधिकृतवर्णादिव्यतिरेकेण शेषवर्णादिभिरपि भङ्गाः सम्भवन्ति, तथापि तेष्वेव बादरेसु स्कन्धेषु ये व्यवहारतः केवलकृष्णवर्णाद्युपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एव लोचनस्कन्धः कृष्णस्तदन्तर्गत एव कश्चिल्लोहितोऽन्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते तेषां चान्यद्वर्णान्तरादि न सम्भवति,
स्पर्शचिन्तायां त्ववधिकृतस्पर्शं प्रति प्रतिपक्षव्यतिरेकेणान्ये स्पर्शा लोकेऽप्यविरोधिनो दृश्यन्ते ततो यथोक्तैव भङ्गसङ्ख्या, साऽपिच परिस्थूरन्यायमङ्गीकृत्याभिहिता, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वादनन्ता भङ्गाः संभवन्ति, एतेषां च वर्णादिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतोऽसङ्घयेयं कालम्, सम्प्रत्युपसंहारमाह 'सेत्तं रूविअजीवपन्नवणा, सेत्तं अजीवन्नवणा' सैषा रूप्यजीवप्रज्ञापना, सैषाऽजीवप्रज्ञापना ।।
साम्प्रतं जीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रं चा (त्रमा) ह
मू. (१४) से किं तं जीवपत्रवणा ?, २ दुविहा पन्नत्ता, तंजहा - संसारमावण्णजीवपन्नवणा य असंसारसमावण्णजीवपन्नवणा य
वृ. अथ का सा जीवप्रज्ञापना ?, सूरिराह - जीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-संसारसमापन्नजीवप्रज्ञापना चासंसारसमापन्नजीवप्रज्ञापना च, तत्र संसरणं संसारो - नारकतिर्यगनरामरभवानुभवलक्षणस्तं सम्यग् - एकीभावेनापन्नाः संसारसमापन्नाः, संसारवर्त्तिन इत्यर्थः, ते च ते जीवाश्च तेषां प्रज्ञापना संसारसमापन्नजीवप्रज्ञापना,
न संसारोऽसंसारो - मोक्षस्तं समापन्ना असंसारसमापन्ना मुक्ता इत्यर्थः, ते च ते जीवाश्च तेषां प्रज्ञापनाऽसंसारसमापन्नदजीवप्रज्ञापना, चशब्दौ प्राग्वत् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवप्रज्ञापनाभिधित्सुस्तद्विषय प्रश्नसूत्रमाह
मू. (१५) से किं तं असंसारसमावणअणजीवपन्नवणा ?, असंसारसमावण्णजीवपन्नवणा दुविहा पन्नत्ता, तंजहा - अनन्तरसिद्ध असंसारसमावन्नजीवपन्नवणा य परम्परसिद्धअसंसारसमावन्नजीवपन्नवणाय ।
वृ. अथ का सा असंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह - असंसारसमापन्नजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा - अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापनाच परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाच, तत्र न विद्यतेऽन्तरं व्यवधानमर्थात्समयेन येषां तेऽनन्तरास्ते च ते सिद्धाश्चानन्तरसिद्धाः सिद्धत्वप्रथमसमये वर्त्तमाना इत्यर्थः ते च तेऽसंसारसमापन्नजीवाश्चानन्तरसिद्धासंसारसमापन्नजीवास्तेषां प्रज्ञापनाऽनन्तरसिद्धाऽसंसारसमापन्नजीवप्रज्ञापना, चशब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमयसिद्धः स परस्तस्यापि यस्तृतीय- समयसिद्धः स परः एवमन्येऽपि वाच्याः, परे च परे चेति वीप्सायां 'पृषोदरादय' इति परम्परशब्द- निष्पत्तिः, परम्पराश्च ते सिद्धाश्च परम्परसिद्धाः विवक्षितसिद्धस्य प्रथमसमयात् प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्त्तमाना इति भावः, ते तेऽसंसारसमापन्नाश्च परम्परसिद्धा - संसारसमापन्नास्ते च ते जीवाश्च तेषां प्रज्ञापना परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना, अत्रापि चशब्दः स्वगतानेकभेदसूचकः ॥
मू. (१६) से किं तं अनन्तरसिद्ध असंसारसमावण्णजीवपन्नवणा ?, अनन्तरसिद्धअ
For Private & Personal Use Only
www.jainelibrary.org
,
Jain Education International