________________
पदं-१०, उद्देशकः-, द्वारं
२४९ चरमशब्देन व्यपदेशष्टुमशक्यत्वादवक्तव्यः, चतुर्थश्चरमाणीति पञ्चमोऽचरमाणीतिषष्ठोऽवक्तव्यानीति पञ्चदशोऽचरमश्चावक्तव्यश्च षोडशोऽचरमश्चावक्तव्यानि च सप्तदशोऽचरमाणि चावक्तव्यश्च अष्टादशोऽचरमाणि चावक्तव्यानि चेत्येते सप्त भङ्गा ओघत एव न संभवन्ति,
तथाप्रकाराणा द्रव्याणामेवासंभवात्, न ह्येवं जगति केवलानि चरमादिनिद्रव्याणि संभवन्ति, असंभवश्वप्रागुक्तभावानानुसारेण सुगमत्वात्स्वयंभावनीयः, सप्तमश्चचरमश्चाचरमश्चेत्येवरूपएव, यदासषट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेकपरिक्षेपेणव्यवस्थितेष्वेवमवगाहते, द्वौ परमाणू मध्यप्रदेशे एकैकः शेषेषु, तदा तेषां चतुर्णां परमाणूनामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वदेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाच्चैकत्वव्यपदेशः एकत्वव्यपदेशत्वाच्चरम इति व्यपदेशः, यौ तु द्वौ परमाणू मध्ये तावेकत्वपरिणामपरिणतावित्यचरमः, अष्टमश्चरमश्चाचरमौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः षट्सु प्रदेशेषु एकपरिक्षेपेणैकाधिकमेवमवगाहते, तदा पर्यन्तवपर्तिनः परिक्षेपेणावस्थिताश्चत्वारः परमाणवः प्रागुक्तयुक्तरेकश्चरमः, द्वौ मध्यवर्तिनावचरमाविति, अन्ये त्वभिदधति-चतुर्णां परमाणूनां क्षेत्रप्रदेशान्तरव्यवहिताधिकत्वपरिणामो न भवति ततभावाच्च नैष भङ्ग उपपद्यते, प्रतिषिद्धश्च सूत्रे, यतो वक्ष्यति--
___"बिचउत्थपंचछट्ट"मिति प्राकृतशैल्या 'छ?' 'अट्ट' इत्येतयोः पदयोर्निर्देशः, ततोऽयमर्थः-षष्ठमष्टमंच वर्जयित्वेति, अथनामैवंरूपोऽपि भङ्गो भवति तदैवंगम्यते-येएकवेष्टका अव्यवधानेन चत्वारः परमाणवस्ते तथाविधैकत्वपरिणामपरिणतत्वाच्चरमः, तस्मादधिकोऽपि समश्रेण्यैव प्रतिबद्धत्वान्न तदतिरिक्त इति सोऽपि तस्मिन्नेव चरमे गण्यते इत्येकं चरमं, पुनश्च योऽधिकमध्ये व्यवस्थित इति स मध्यवर्तित्वादनेकपरिणामित्वाच्च वस्तुनोऽचरमोऽपि ततोऽ (तश्चरमा) चरमावित्यपि भवति, अत्रापि न कश्चिद् विरोधः, तत्त्वं पुनः केवलिनो विदन्ति, नवमश्चरमौ चाचरमश्च, यदा स एव षट्प्रदेशकः स्कन्धस्त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्तितेष्वेवमवगाहते-एकैकस्मिन्नाकाशप्रदेशे द्वौ द्वौ परमाणू इति,-तदाऽऽद्यप्रदेशवर्तिनौ द्वौ परमाणू चरमः द्वान्त्यप्रदेशवर्तिनौ चरम इति चरमौ, द्वौ तु मध्यप्रदेशवर्तिनौ एकोऽचरम इति, दशमश्चरमौ चाचरमौ च, सचैवं-यदा सषट्प्रदेशकः स्कन्धश्चतुष्वाकाशप्रदेशेषुसमश्रेण्या व्यवस्थितेष्वेवमगाहते-द्वावाद्ये प्रदेशे द्वौ द्वितीये एकस्तृतीये एकश्चतुर्थे इति,
तदा द्वौ परमाणू प्रथमप्रदेशवर्तिनावेकश्चरमः एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणूद्वितीयप्रदेशवर्तिनाबेकोऽचरमः एकस्तृतीयप्रदेशवर्ती अचरमइत्यचरमावपि द्वौ, एकादशश्चरमश्चावक्तव्यश्च, सचैवं-यदा स एवषट्प्रदेशात्मकः स्कन्धस्त्रिष्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते-द्वावाद्ये प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीये प्रदेशे द्वौ विश्रेणिस्थे तृतीयेप्रदेशे, तदा द्विप्रदेशावगाढाश्चत्वाराः परमाणवः समश्रेणिव्यवस्थितद्विप्रदेशावगाढव्यणुकस्कन्धवदेकश्चरमः द्वौच विश्रेणिस्थप्रदेशावगाढौ परमाणुवदेकोऽवक्तव्यः, द्वादशश्चरमश्चावक्तव्यौच, तत्र यदा सषट्प्रदेशात्मकः स्कन्धश्चतुष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू प्रथम् प्रदेशे द्वौ समश्रेणिव्यवस्थिते द्वितीये प्रदेशे एकः ततः परमुपरि तृतीये प्रदेशे एकश्चाधश्चतुर्थे इति,
तदा चत्वारः परमाणवो द्विप्रदेशावगाढाः पूर्ववदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org