________________
२४८
प्रज्ञापनाउपाङ्गसूत्रं-१-१०/-/-/३६५
क्तव्यः, कथमिति चेत् ?,
उच्यते, यदा स पञ्चप्रदेशात्मकस्रष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्य चैवमगाहते-द्वौ द्वौपरमाणूद्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः एकोविश्रेणिस्थः, तदा चत्वारः परमाणवो द्विप्रदेशावगाहित्वात् द्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरम एकश्च विश्रेणिस्थः परमाणुरवक्तव्यः, द्वादशः चरमश्चावक्तव्यौ च, तत्र यदास पञ्चप्रदेशात्मकः स्कन्धश्चतुष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्याचैवमवगाहते-द्वौपरमाणूद्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेको विश्रेणिस्थे द्वौ चान्यस्मिन् विश्रेणिस्थे, तदा द्वौ परमाणूसमश्रेणिव्यवस्तितद्विप्रदेशावगाढौ द्विप्रदेशावगाद्विप्रदेशस्कन्धवच्चरमः एकौ द्वौ च विश्रेणिस्थपृथगेकैकाकाशप्रदेशावगाढौ चावक्तव्यौ, त्रयोदशः चरमौ चावक्तव्यश्च, तत्र यदा सपञ्चप्रदेशावगाढः पञ्चस्वाकाशप्रदेशेष्वेवमवगाहते-द्वौ परमाणू उपरि द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरवगाढौ द्वौ च द्वयोस्तथैवाधः एकः पर्यन्ते मध्यसमे, तदा द्वावुपरितनौ द्विप्रदेशावगाढव्यणुकस्कन्धवच्चरमः द्वौचाधस्तनौचरम इतिचरमौ एकश्च केवलः परमाणुरिवावक्तव्य इति, त्रयोविंशतितमः चरमौ चाचरमश्चावक्तव्यश्च,
सचैवं-यदा पञ्चप्रदेशकः स्कन्धश्चतुष्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहतेत्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वद्ये एकः परमाणुः मध्ये द्वौ अन्ते एकः चतुर्थेऽपि विश्रेणिस्थ एकः, तदा त्रिष्वाकाशप्रदेशेषु मध्ये आद्यन्तप्रदेशावगाढौ चरमौ मध्यप्रदेशवर्ती तु
यणुको मध्यवर्तित्वादचरमो विश्रेणिस्थश्चावक्तव्य इति, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौच, कथमिति चेत्, उच्यते,सएव यदापञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमगाहते-त्रयः परमाणवस्त्रिष्वाकाशप्रदेशेषु समश्रेणिव्यवस्थितेषु द्वयोराकाशप्रदेशयो; परमाण्वोर्विश्रेणिस्थयोः, तदा त्रिष्वाकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनौ चरमौ मध्यश्चाचरमो द्वौ च विश्रेणिस्थाववक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, स चै-यदा पञ्चप्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेचत्वारश्चतुष्वाकाशप्रदेशषुसमश्रेणिव्यवस्तितेषुएको विश्रेणिस्थः,-तदा चतुष्वा-काशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनो चरमौ द्वौ च मध्यवर्तिनावचरमौ एको विश्रेणिस्थोऽ- वक्तव्यः ।
'छप्पएसिएणंभंते!' इत्यादि प्रश्नसूत्रं प्राग्वत, निर्वचनं 'गोयमा! सियचरमे' इत्यादि, इह द्वितीयचतुष्पञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशविंशतितमैकविंशतितमद्विंशतितमरूपा एकादश भङ्गाः प्रतिषेध्याः, वक्ष्यति च॥१॥ "बिचउत्थपञ्चछठे पन्नरसोलं सत्तरद्वारं ।
वीसेक्कवीस बावीसगंच वज्जेज्ज छटुंमि ॥" शेषास्त्वेकादयः परिग्राह्याः, घटमानत्वात्, तत्र यथा यादयोन घटन्ते एकादयस्तु घटन्ते तथा भाव्यन्ते-इह यदा षट्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाहते-एकस्मिन्नाकाशप्रदेशे त्रयः परमाणवोऽपरिस्मिन्नपि त्रय इति,- तदा द्विप्रदेशावगाढद्विप्रदेशस्कन्धवच्चरमः, अचरमलक्षणस्तु द्वितीयो भङ्गो न घटते, चरमरहितस्य केवलस्याचरमस्यासंभवात्, न खलु प्रान्ताभावे मध्यं भवतीति भावनीयमेतत्, तृतीयोऽवक्तव्यलक्षणः, स चैवं यदा स षट्प्रदेशात्मकः स्कन्धः एकस्मिन्नाकाशप्रदशेऽवगाहते, - तदा परमाणुवच्चरमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org