SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१२ प्रज्ञापनाउपाङ्गसूत्र-१-५/-/-/३२४ यादिस्थितिकाः तदनन्तरमेकगुणकालकादयः ततो जघन्याद्यवगाहनाप्रकारेण तदनन्तरं जघन्यस्थित्यादिभेदेन ततोजघन्यगुणकालकादिक्रमेणतदन्तरंजघन्यप्रदेशादिना भेदेनेति, उक्तंच॥१॥ “अणुमाइओहियाणं खेत्तादिपएससंगयाणंच । जहनाऽवगाहणाइण चतेव जहन्नादिदेसाणं ।" अस्याक्षरगमनिका-प्रथमतोण्वादीनां-परमाण्वादीनां चिन्ता कर्तव्या, तदनन्तरं क्षेत्रादिप्रदेशसङ्गतानां, अत्रादिशब्दात्कालभावपरिग्रहः ततोऽयमर्थः-प्रथमतः क्षेत्रप्रदेशैरेकादिभिः सङ्गतानां चिन्ता कर्तव्या, तदनन्तरंकालप्रदेशैः-एकादिसमयैस्ततो भावप्रदेशैः-एकगुणकालकादिभिरिति, तदनन्तरं जघन्यावगाहनादीनामिति, अत्रादिशब्देन मध्यमोत्कृष्टावगाहनाजधन्यमध्यमोत्कृष्टप्रदेशानामिति॥ तत्र प्रथमतःक्रमेण परमाण्वादीनां चिन्तां कुर्वन्नाह-'परमाणुपोग्गलाणं भंते!' इत्यादि, स्थित्या चतुःस्थानपतितत्वं, परमाणोः समयादारभ्योत्कर्षतोऽसङ्खयेयकालमवस्थानभवात्, कालादिवर्णपर्यायैः षट्स्थानपतितत्वं एकस्यापि परमाणोः पर्यायानन्तायविरोधात्, ननु परमाणुरप्रदेशोगीयतेततः कथंपर्यायानन्त्याविरोधः?,पर्यायानन्त्येनियमतःसप्रदेशत्वप्रसक्तः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, परमाणुर्हि अप्रदेशो गीयते द्रव्यरूपतया सांशो न भवतीति, न तुकालभावाभ्यामिति, अपएसो दव्वट्ठयाए' इति वचनात्, ततः कालभावाभ्या सप्रदेशत्वेऽपि न कश्चिद्दोषः, तथा परमाण्वादीनामसङ्ख्यातप्रदेशस्कन्धरपर्यान्तानां केषांचिदनन्तप्रादेशिकानामपि स्कन्धानां तथैकप्रदेशावगाढानां यावत् सङ्ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति तैरेव परमाण्वादीनां षट्स्थानपतितता वक्तव्या, न शेषैः, द्विप्रदेशस्कन्धसूत्रे 'ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिए' इत्यादि, यदा द्वावपि द्विप्रदेशिको स्कन्धौ द्विप्रदेशावगाढावेकप्रदेशावगाढी वा भवतस्तदा तुल्यावगाहनौ, यदा त्वेको गद्विप्रदेशवगाढोऽपरस्त्वेकप्रदेशावगाढस्तदा एकप्रदेशावगाढोद्विप्रदेशावगाढापेक्षयाप्रदेशहीनो द्विप्रदेशावगाढस्तु तदपेक्षया(प्रदेशा)ऽभ्यधिकः शेषं प्राग्वत्, । त्रिप्रदेशस्कन्धसूत्रे 'ओगाहणट्ठयाए सिय हीणे इत्यादि, यदा द्वावपित्रिप्रदेशको स्कन्धौ त्रिप्रदेशावगाढौ द्विप्रदेशावगाढो एकप्रदेशावगाढौ वा तदा तुल्यौ यदा त्वेकस्त्रिप्रदेशावगाढो वा द्विप्रदेशावगाढोवाअपरस्तुद्विप्रदेशावगाढ एकप्रदेशवगाढोवातदाद्विप्रदशवाढेकप्रदेशावगाढौ यथाक्रमंत्रिप्रदेशावगाढद्विप्रदेशावगाढापेक्षयाएकप्रदेशहीनौ त्रिप्रदेशावगाढगद्विप्रदेशावगाढौ तुतदपेक्षया एकप्रदेशाभ्यधिकौ, यदात्वेकस्त्रिप्रदेशावगाढोऽपर एकप्रदेशावगाढस्तदाएकप्रदेशावगाढस्त्रिप्रदेशावगाढपेक्षया द्विप्रदेशहीनः त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशाभ्यधिकः, एवमेकैकप्रदेशपरिवृध्या चतुःप्रदेशादिषु स्कन्धेष्ववगाहनामधिकृत्य हानिर्वृद्धिर्वातावनद् वक्तव्यायावद्दशप्रदेशस्कन्धः, तस्मिंश्च दशप्रदेशके स्कन्धे एवं वक्तव्यं जइहीणे पएसहीणे वा दुपएसहीणे वा जाव नवपएसहीणे वा अह अब्महिए पएसमब्महिए वा दुपएसममहिए वा जावनवपएसमभहिएवा' इतिभावनापूर्वोक्तानुसारेण स्वयंकर्तव्या, सङ्ख्यायप्रादेशिकस्कन्धसूत्रे 'ओगाहणट्टयाए दुट्ठाणवडिए' इति सङ्खयेयभागेन सङ्घयेयगुणेन चेति, असङ्ख्यातप्रदेशकस्कन्धे Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy