SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्र--५///३१५ --जघन्यावगाहनस्यास्याज्ञानानि भजनया द्रष्टव्यानि द्वे त्रीणि वेति, उत्कृष्टावगाहनसूत्रे स्थित्या हानी वृद्धौ च द्विस्थानपतितत्वं, तद्यथा-असङ्घयेयभागहीनत्वं वा सङ्घयेयभागहीनत्वं वा, तथा असङ्घयेयभागाधिकत्वं वा सङ्घयेयभागाधिकत्वं वा न तु सङ्घयेयसङ्घयेयगुणवृद्धिहानी, कस्मादिति चेत्, उच्यते, उत्कृष्टावगाहना हि नैरयिकाः पञ्चधनुः शतप्रमाणाः, ते च सप्तमनरकपृथिव्यां, तत्र जघन्या स्थितिः द्वाविंशतिः सागरोपमाणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, ततोऽसङ्घयेयसङ्घयेयभागहानिवृद्धी एव घटेते न त्वसङ्घययसङ्घयेयगुणहानिवृद्धी, तेषां तोत्कृष्टावगाहनानां त्रीणि ज्ञानानि त्रीण्यज्ञानानि वा नियमाद्वेदितव्यानि न भजनया, भजनाहेतोः संमूर्च्छिमासंज्ञिपञ्चेन्द्रियोत्पादस्य तेषामसंभवात् । १९८ - अजघन्योत्कृष्टावगाहनसूत्रे यदवगाहनया चतुःश्थानपतित्वं तदेवं- अजघन्योत्कृष्टावगाहनो हि सर्वजघन्याङ्गुलासङ्घयेयभागात्परतो मनाक् बृहत्तराङ्कुलासङ्घयेयभागादारभ्य यावदङ्गुलासङ्घयेयभागन्यूनानि पञ्चधनुः शतानि तावदवसेयः, ततः सामान्यनैरयिकसूत्रे इवात्राप्युपपद्यते अवगाहनातश्चतुःस्थानपतितता, स्थित्या चतुःस्थानपतितता सुप्रतीता, दशवर्षसहस्रभ्य आरभ्योत्कर्षतनयस्त्रिंशत्सागरोपमाणामपि तस्यां लभ्यमानत्वात्, जघन्यस्थितिसूत्रे अवगाहनाय चतुःस्थानपतितत्वं तस्यामवगाहनायां जघन्योऽङ्गुलासङ्घत्येयभागादारभ्योत्कर्षतः सप्तानां धनुषामवाप्यमा त्वात्, अत्रापि त्रीण्यज्ञानानि केषांचित्कादाचित्कतया द्रष्टव्यानि, संमूर्च्छिमासंज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानमपर्याप्तावस्थायां विभङ्गस्याभावात्, उत्कृष्टस्थितिचिन्तायामवगाहनया चतुःस्थानपतितत्वमुत्कृष्टस्थितिकस्यावगाहनाया जघन्यतोऽमुलासङ्घयेयागादारभ्योत्कर्षतः पञ्चानां धनुःशतानामवाप्यमानत्वात्, 'अजनुक्कोसठिइएवि एवं चेव' इत्यादि, अजधन्योत्कृष्टस्थितावपि तथा वक्तव्यं यथा जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे चट, नवरमयं विशेषः - जघन्यस्थितिसूत्रे उत्कृष्टस्थितिसूत्रे च स्थित्या तुल्यत्वमभितं अत्र तु 'स्वस्थानेऽपि' स्थितावपि चतुःस्थानपतित इति वक्यवयं, समयाधिकदशवर्षसंहस्रेभ्य आरभ्योत्कर्षतः समयोनत्रयस्त्रिंशत्सागरोपमाणामवाप्यमानत्वात्, जघन्यगुणकालकादिसूत्राणि सुप्रतीतानि, नवरं 'जस्सनाणा तस्स अन्नाणा नत्थि त्ति यस्य ज्ञानानि तस्याज्ञानानि न संभवन्तीति, यतः सम्यग्ध्ष्टेर्ज्ञानानि मिथ्याध्ष्टेरज्ञानानि सम्यगष्टित्वं च मिथ्याष्टित्वोमपर्देन भवति मिथ्याष्टित्वमपि सम्यग्दृष्टित्वोपमर्देन भवति, ततो ज्ञानसद्भावेऽज्ञानाभावः एवमज्ञानसद्भावे ज्ञानाभावः, तत उक्तं- 'जहा नाणा तहा अन्नाणावि भाणियव्वा, नवरं जस्स अन्नाणा तस्स नाणा न संभवन्ति' इति शेषं पाठसिद्धं । मू. (३१६) जहन्नोगाहगाणं भंते! असुरकुमाराणं केवइया पजवा पन्नत्ता ?, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणट्टेणं भंते ! एवं वुच्चइ जहन्नोगाहगाणं असुरकुमाराणं अनंता पज्जवा पन्नत्ता !, गोयमा ! जहन्नोगाहणए असुरकुमारे जहन्नोगाहणस्स असुरकुमारस्स दव्वट्टयाए तुल्ले पसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईए चउट्ठाणवडिए वन्नाईहिं छट्टाणवडिए आभिनिबोहियनाण० सुयनाण० ओहिनाणपज्जवेहिं तिहिं अन्नाणेहिं तिहिं दंसणेहिं य छट्टाणवडिए, एवं उक्कोसोगाहणएवि एवं अजहन्नमणुक्कोसोगाणएवि, नवरं उक्कोसोगाहणएवि असुरकुमारे ठीईए चउट्टाणवडिए, एवं जाव धणियकुमारा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy