SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-, द्वार-२७ । १७५ न्द्रियपर्यन्तानांप्रत्येकमङ्गुलसङ्ख्येयभागमात्राणिसूचिरूपाणि खण्डानियावन्त्येकस्मिन्प्रतरेभवन्ति तावत्प्रमाणत्वमविशेषेणान्यत्र वर्ण्यते तथाऽप्यङ्गुलसङ्खयेयभागस्य सङ्खयेयभेदभिन्नत्वाद् इत्थं विशेषाधिकत्वमुच्यमानंन विरुद्धं, उक्तंचेत्थमल्पबहुत्वमन्यत्रापि-'तत्तोनपुंसगखहयरा संखेजा थलयरजलयरनपुंसगा चउरिदिय तओ पणबितिपज्जत्त किंचि अहिआ" इति ४८ तेभ्योऽपि पर्याप्तत्रीन्दियेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असङ्खयेयगुणाः अङ्गुलासङ्खयेयभागमात्राणि खण्डानि सूचिरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणत्वात् ४९ तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेषाधिकाः ५० तेभ्योऽपि त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः ५१ । तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, यद्यपि चापर्याप्ताः चतुरिन्द्रियादयो अपर्याप्तद्वीन्द्रियपर्यन्ताःप्रत्येकमङ्गुलस्यासङ्ख्येयभागमात्राणि खण्डानि सूचीरूपाणियावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणा अन्यत्राविशेषेणोक्तास्तथाप्यङ्गुलासंख्येयभागस्य विचित्रत्वादित्थं विशेषाधिकत्वमुच्यमानंन विरोधमास्कन्दति ५२, तेभ्योऽपि द्वीन्द्रियापर्याप्तेभ्यः प्रत्येकबादरवनस्पतिकायिकाः पर्याप्ताः असंख्येयगुणाः, यद्यपि चापर्याप्तद्वीन्द्रियादिवत् पर्याप्तबादरवनस्पतिकायिका अपि अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणा अन्यत्रोक्तास्तथापिअङ्गुलासङ्खयेयभागस्यासङ्खयेयभेदभिन्नत्वाद्वादरपर्याप्तप्रत्येकवनस्पतिपरिमाणचिन्तायामङ्गुलासङ्घयेयभागोऽसङ्खयेयगुणहीनः परिगृह्यतेततोन कश्चिदविरोधः ५३ । तेभ्योऽपि बादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असङ्खयेयगुणाः ५४ तेभ्योऽपि बादरपृथिवीकायिकाः पर्याप्ता असङ्खयेयगुणा; ५५ तेभ्योऽपि पर्याप्ता बादराप्कायिका असङ्खयेयगुणाः, यद्यपि च पर्याप्तबादरप्रत्येकवनस्पतिकायिकपृथिवीकायिकाप्कायिकाः प्रत्येकमङ्गुलासङ्घ- येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रावि-शेषेणोक्ताः तथाप्यकुलासङ्खयेयभागस्यासङ्ख्येयभेदभिन्नत्वाद् इत्थम सङ्खयेयगुणत्वाभिधानेनकश्चिद्दोषः ५६तेभ्यो बादरपयाप्ताप्कायिकेभ्योबादरवायुकायिकाः पर्याप्ताअसङ्खयेयगुणाः, धनीकृतलोकासङ्खयेयभागवत्यसङ्ख्येयप्रतरगतनभः प्रदेशराशिप्रमाणत्वात् ५७ तेभ्यो बादरतेजः-कायिका अपर्याप्ता असङ्खयेयगुणाः, असङ्खयेयलोकाकाशप्रदेशराशिप्रमाणत्वात् ५८ तेभ्योः प्रत्येकशरीरबादरवनस्पतिकायिका अपर्याप्ता असङ्खयेगुणाः ५९ तेभ्योऽपिबादरनिगोदा अपर्याप्त-का असङ्खयेयगुणाः ६० तेभ्यो बादरपृथिवीकायिका अपर्याप्तका असङ्खयेयगुणाः ६१ तेभ्यो बादराप्कायिका अपर्याप्तका असङ्खयेयगुणाः ६२ तेभ्यो बादरवायुकायिद्य अपर्याप्ता असङ्घयेयगुणाः ६३ तेभ्यः सूक्ष्मतेजःकायिका अपर्याप्तका असङ्खयेयगुणाः६४ तेभ्यः सूक्ष्मपृथिवीद्ययिकाअपर्याप्ता विशेषाधिकाः ६५ तेभ्यः सूक्ष्माप्कायिका अपर्याप्ता विशेषाधिकाः ६६ तेभ्यः सूक्ष्मवायुकायिद्य अपर्याप्ता विशेषाधिकाः ६७ तेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्तकाः सङ्खयेयगुणाः ६८।अपर्याप्तकसूक्ष्मेभ्यः पर्याप्तकसूक्ष्माणांस्वभावत एव प्राचुर्येण भावात्, तथा चाह अस्या एव प्रज्ञापनायाः संग्रहणीकारः॥१॥ “जीवाणमपज्जवा बहुतरगा बायराण विनेया। सुहुमाण य पज्जत्ता ओहेण य केवली बिंति ॥" -तेभ्योऽपि सूक्ष्मपृथिवीकायिकाः पर्याप्तका विशेषाधिकाः ६९ तेभ्योऽपिसूक्ष्मा कायिकाः पर्याप्ता विशेषाधिकाः ७० तेभ्योऽपि सूक्ष्मवागुकायिकाः पर्याप्ता विशेषाधिकाः ७१ तेभ्योऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy