SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रं-१- ३/-/२७/२९७ सङ्घयेयगुणाः द्वात्रिंशद्गुणत्वात् ३० ताभ्योऽप्यस्यां रत्नप्रभायां पृथिव्यां नैरयिका असङ्घयेयगुणाः अङ्गुलमात्र क्षेत्र प्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वीतीये नवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तवत्प्रमाणत्वात् ३१ । -तेभ्यो पि खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्घयेयगुणाः प्रतरासङ्केययभागवत्यसङ्ख्येयश्रेणिनभःप्रदेशराशिप्रमाणत्वात् ३२ तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्घयेयगुणाः, त्रिगुणत्वात्, “तिगुणा तिरूवअहिया तिरिआणं इत्थिओ मुणेयव्वा" इति वचनात् ३३ ताभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सङ्घयेयगुणाः, बृहत्तरप्रतरासङ्घयेयभागवत्यसङ्घयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ३४ तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्घयेयगुणाः त्रिगुणत्वात् ३५ ताभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सङ्घयेयगुणाः बृहत्तमप्रतरासङ्घयेयभागवत्यसङ्घयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ३६ तेभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्घयेयगुणाः त्रिगुणत्वात् ३७ ताभ्योऽपि व्यन्तरा देवा पुंवेदोदयिनः सङ्घयेयगुणाः, यतः सङ्घयेययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावन्तः सामान्येन व्यन्तराः, केवलमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पा वेदितव्याः, ततो घटन्ते जलचरयुवतिभ्यः सङ्घयेयगुणाः ३८ तेभ्यः व्यन्तर्यः सङ्घयेयगुणाः द्वात्रिंसद्गुणत्वात् ३९ । - ताभ्यो ज्योतिष्का देवाः सङ्घयेयगुणाः ते हि सामान्यतः षट्पञ्चादशधिकशतद्वयामुलप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः, परमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पाप्रतिपत्तव्याः, तत उपपद्यन्ते व्यन्तरीभ्यः सङ्घयेयगुणाः ४० तेभ्यो ज्योतिष्कदेव्यः सङ्घयेयगुणाः द्वात्रिंशद्गुणत्वात् ४१ । १७४ -ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिका नपुंसकाः सङ्घयेयगुणाः, क्वचित् 'असङ्ख्येयगुणाः' इति पाठः, स न समीचीनः, यत इत ऊर्ध्व ये पर्याप्तचतुरिन्द्रिया वक्ष्यन्ते तेऽपि ज्योतिष्कदेवापेक्षया सङ्घयेयगुणा एवोपपद्यन्ते, तथाहि षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावठप्रमाणा ज्योतिष्काः, उक्तं च- "छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति अङ्गुलसङ्खेययभागमात्राणि च सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाश्चतुरिन्द्रियाः, उक्तं च“पज्जत्तापज्जत्तबितिचउर असन्नणो अवहरति । - 119 11 अलसंखासंखप्पएसभइयं पुढो पयरं ।। " अङ्गुलसङ्घयेयभागापेक्षया च षट्पञ्चादशधिकमङ्गुलशतद्वयं सङ्घयेयगुणं, ततो ज्योतिष्कदेवापेक्षया परिभाव्यमानाः पर्याप्तचतुरिन्द्रिया अपि सङ्केययगुणा एव घटन्ते किं पुनः पर्याप्तंचतुरिन्द्रियापेक्षया सङ्घयेभागमात्राः खचरपञ्चेन्द्रियनपुंसका इति ? ४२ तेभ्योऽपि स्थलचरपञ्चेन्द्रियनपुंसकाः सङ्घयेयगुणाः ४३ तेभ्योऽपि जलचरपञ्चेन्द्रियनपुंसकाः सङ्क्षेयगुणाः ४४ तेभ्योऽपि पर्याप्तचतुरिन्द्रियाः सङ्घयेगुणाः ४५ तेभ्योऽपि पर्याप्ताः संज्ञ्यंज्ञिभेदभिन्नाः पञ्चेन्द्रिया विशेषाधिकाः ४६ तेभ्योऽपि पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ४७ । - तेभ्योऽपि पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः, यद्यपि च पर्याप्तचतचुरिन्द्रियादीनं पर्याप्तत्री For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy