SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-, द्वारं-४ १४३ यप्तेिभ्यो हि सूक्ष्मवनस्पतिकायिकपर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात्ततः सूक्ष्मापयप्तेिभ्योऽपि सङ्खयेयगुणाः, विशेषाधिकत्वस्य सङ्खयेयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्षमपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः सूक्ष्माः पर्याप्तपर्याप्तविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । गतं सूक्ष्मबादरसमुदायगतं पञ्चममल्पबहुत्वं, तद्गतौ समर्थितानि पञ्चदशापि सूत्राणीति । गतं कायद्वारम्, इदानीं योगद्वारमाह -पदं-३-दारं-५:- "योगः":मू. (२६७) एएसिणं भंते ! जीवाणं सयोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अयोगीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसाहिया वा?, गो० सव्वत्थोवा जीवा मणयोगी वययोगी असंखे० अयोगी अनंतगुणा काययोगी अनंत० सयोगी विसे०॥ वृ. सर्वस्तोका मनोयोगिनः, संज्ञिनः पर्याप्ता एव हि मनोयोगिनः ते च स्तोका इति, तेभ्यो वाग्योगिनोऽसङ्ख्येयगुणाः, द्वीन्द्रियादीनां वाग्योगिनां संज्ञिभ्योऽसङ्ख्यातगुणत्वात्, तेभ्योऽयोगिनोऽनन्तगणाः,सिद्धानामनन्तत्वात, तेभ्यः काययोगिनोऽनन्तगुणाः, वनस्पतीनामनन्तत्वात्, यद्यपिनिगोदजीवानामनन्तानामेकंशरीरंतथापितेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वाव्याघातः तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगादीनां तत्र प्रक्षेपात्॥ गतं योगद्वारम्, इदानीं वेदद्वारमाह -:पदं-३-दारं-६:- "वेद":मू. (२६८)एएसिणंभंते! जीवाणंसवेयगाणंइत्थीवेयगाणंपुरिसवेयगाणंनपुंसकवेयगाणं अवेयगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गो० सव्वत्थोवा जीवा पुरिसवेयगा इत्थी० संखे० अवेयगा अनंतगुणा नपुंसक० अनंत० सवेयगा विसेसाहिया वृ.सर्वस्तोकाः पुरुषवेदाः, संज्ञिनामेव तिर्यग्मनुष्याणां देवानांच पुरुषवेदभावात्, तेभ्यः स्त्रीवेदाः सङ्खयेयगुणाः, यत उक्तं जीवाभिगमे- “तिरिक्खजोणियपुरिसेहितो तिरिक्खजोणियइत्थीओतिगुणीओ तिरूवाहियाओय, तहामणुस्सपुरिसेहिंतोमणुस्सइत्थीओसतावीसगुणाओ सत्तावीसावुत्तराओय, तथादेवपुरिसेहितोदेवित्थीओबत्तीसगुणाओबत्तीसरुवुत्तराओ" इति, वृद्धाचार्यैरप्युक्तं॥१॥ “तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुन मणुयाणं तदहिया चेव॥ ॥२॥ बत्तीसगुणा बत्तीसरूवअहिया य तहय देवाणं । देवीओ पन्नत्ता जिनेहिं जियरागदोसेहिं॥" अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो नपुंसकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, सामान्यतः सवेदकाः विशेषाधिकाः, स्त्रीवेदकपुरुषवेदकानामपि तत्र प्रक्षेपात, ॥ गतं वेदद्वारम्, इदानीं कषायद्वारमाह __-पदं-३- दारं-७:- “कषाय" :मू. (२६९) एएसिं णं भंते ! सकसाईणं कोहकसाईणं मानकसाईणं मायाक्रसाईणं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy