SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रं- १- ३/-/४/२६६ असङ्घयेयगुणाः, एकैकबादर-पर्याप्तनिश्रया असङ्ख्येयानां बादरापर्याप्तानामुत्पादात्, तेभ्यः सूक्ष्मा अपर्याप्ताः असङ्घयेयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासङ्घयेयगुणत्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्घयेयगुणाः, चिरकाला - वस्थायितया तेषां सदैव सङ्घयेयगुणतयाऽवाप्यमानत्वात् । गतं चतुर्थमल्पबहुत्वम्, इदानीमेतेषामेव सूक्ष्मसूक्ष्मपृथिवीकायिकादीनां बादरबादरपृथिवीकायिकादीना च प्रत्येकं पर्याप्तापर्याप्तानां च समुदायेन पञ्चममल्पबहुत्वमाह- सर्वस्तोका बादरतेजः कायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यनैरावलिकासमयैर्गुणिते यावान्समयराशिस्तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, प्रतरे यावत्यङ्गुलसङ्घयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां तेभ्यो बादरसकायिका अपर्याप्ता असङ्घयेयगुणाः, प्रतरे यावत्यङ्गुलासङ्घयेयभागमात्राणि खण्डानि तावप्रमाणत्वात् तेषां तेभ्यः प्रत्येकबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्घयेयगुणाः, यद्यप्येते प्रत्येकं प्रतरे यावत्यङ्गुलासङ्येयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यङ्गुलासङ्घयेयभागस्यासङ्घयेयभेदभिन्नत्वात् इत्थं यथोत्तरमसङ्घयेयगुणत्वमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजः कायिका अपर्याप्ता असङ्घयेयगुणाः, असङ्ख्त्येयलोकाकाशप्रदेशप्रमाणत्वात्, १४२ ततः प्रत्येकशरीरबादरवनस्पतिकायिकाबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुका यिका अपर्याप्ता यथोत्तरमसङ्घयेयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तभ्यः सूक्ष्मतेजः कायिका अपर्याप्ता असङ्घयेयगुणाः ततः सूक्ष्मपृथिवीकायिकसूक्ष्मप्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः ततः सूक्ष्मपर्याप्तस्तेजः कायिकाः सङ्ख्यातगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां ओघत एव सङ्घयेयगुणत्वात्, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माकायिकसूक्ष्मवायुकायिकाः पर्याप्ताः यथोत्तरं विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका असङ्ख्येयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सङ्घयेयगुणाः, सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्तानामोघत एव सदा सङ्घयेयगुणत्वात्, एतेच बादरापर्याप्ततेजःकायिकादयः पर्याप्तसूक्ष्मनिगोदापर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्घयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाप्यसङ्घयेयत्वस्यासंख्येयभेभिन्नत्वाद् इत्थमसङ्घयेयगुणत्वं विशेषाधिकत्वं सङ्घयेयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजः कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्घयेयगुणाः, एकैकपर्याप्तबादरनिगोदनिश्रया असङ्घयेयानां बादरनिगोदापर्याप्तानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजः कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्घयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसङ्घयेयगुणत्वात्, ततः सामान्यतः सूक्ष्मापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र पक्षेपात तेभ्यः सुक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मवनस्पतिकायिकाप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy