________________
पदं - ३, उद्देशक:-, द्वारं-४
जलेषु सर्वत्रापि च भावात्, पनकसेवालादयो हि जलेऽवश्यंभाविनः ते च बादरानन्तकायिका इति,
तेभ्योऽपि बादरपृथिवीकायिका असङ्ख्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु भावात्, तेभ्योऽसङ्ख्येयगुणा बादराप्कायिकाः समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असङ्ख्ययेगुणाः, सुषिरे सर्वत्र वायुसंभवात्, तेभ्यो बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानं जीवानां भावात्, तेभ्यः सामान्यतो बादरा जीवा विशेषाधिकाः, बादरत्रसकायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमौधिकानां बादराणामल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानां द्वितायमाह - 'एएसिणं भंते! बायरापज्जत्तगाणं' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्तकाः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजः कायिका अपर्याप्ता असङ्घयेयगुणाः, असङ्घययेलोकाकाश- प्रदेशप्रमाणत्वात् इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं भावनीयं । गतं द्वीतीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह
'एएसि णं भंते! बायरपज्जत्तगाणं' इत्यादि, सर्वस्तोका बादरतेजः कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसमन्यूनैरावलिकासमयैर्गुणितस्य यावान्यसमयराशिर्भवति तावप्रमाणत्वात्तेषा, उक्तं च- “आवलियवग्गो ऊणावलिए गुणिओ हु बायरा ते उ" इति तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्घयेयगुणाः, प्रतरे यावन्त्यङ्गुलसङ्घयेयभागमात्राणि खण्डानि तावप्रमाणत्वात्तेषां तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिकाः पर्याप्ताः असङ्घयेयगुणाः, प्रतरे यावन्त्यङ्गुलासङ्ख्त्येयभागमात्राणि खण्डानि तावठप्रमाणत्वात्तेषां उक्तंच - "पत्तेयपञ्जवणकाइयाओ पयरं हरंति लोगस्स । अङ्गुल असंखभागेण भाइय" मिति तेभ्यो बादरनिगोदाः पर्याप्तका असङ्घयेयगुणातः, तेषामत्यन्तसूक्ष्मावगाहनन्तावज्जलाशयेषु च सर्वत्र भावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ताः असङ्घयेयगुणाः, अतिप्रभूतसङ्ख्यप्रतराङ्गुलासङ्घयेयभागखण्डमानत्वात्, तेभ्योऽपि बादराप्कायिकाः पर्याप्ता असङ्घयेयगुणाः, अतिप्रभूततरसङ्ख्यप्रतराङ्गुलासङ्घयेयभागखण्डमानत्वात्, तेभ्यो बादरवायुकायिकाः पर्याप्ता असङ्ख्येयगुणाः, धनीकृतस्य लोकस्यासङ्घयेयेषु सङ्ख्याततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजः कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम्, इदानीमेतेषामेव पर्याप्तपर्याप्तगतान्यल्पबहुत्वान्याह
'एएसि णं भंते १ बायराणं पञ्जत्तापज्रत्ताणं' इत्यादि, इह बादरैकैकपर्याप्तनिश्रया असङ्घयेया बादरा अपर्याप्ता उत्पद्यन्ते, 'पजत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ एगो तत्त नियमा असंखेज्जा' इति वचनात् ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असङ्घत्येयगुणा वक्तव्याः, त्रसकायिकसूत्रं प्रागुक्तयुक्त्या भावनीयं । गतं चतुर्थमल्पबहुत्वम्, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह - 'एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोकाः बादरतेजःकायिकाः पर्याप्तकाः तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्खयेयगुणाः तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्घयेयगुणाः तेभ्यो बादरुप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्घयेयगुणाः तेभ्यो बादरनिगोदा; पर्याप्तका असङ्घयेयगुणाः तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असङ्खयेयगुणाः तेभ्यो बादरनिगोदाः पर्याप्तका असङ्खयेयगुणाः तेभ्यो बादरपृथिवीकायिकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
१३७