________________
१३०
प्रज्ञापनाउपाङ्गसूत्र-१-३/-/३/२६२ भागवत्यसङ्ख्ययश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषांप्रभूतसद्धेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपित्रीन्द्रियाविशेषाधिकाःतेषा विष्कम्मसूच्या प्रभूततरसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषा विष्कम्भसूच्या प्रभूततमस यययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रियाविशेषाधिकाः, तेषाविष्कम्भसूच्याप्रभूततमसङ्ख्ययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽ. पिअनिन्द्रिया अनन्तगुणाः,सिद्धानामनन्तत्वात्, तेभ्योऽपि एकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, तेभ्योऽपि सेन्द्रिया विशेषाधिकाः द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् तदेवमुक्तमेकमौधिकानामल्पबहुत्वम्, इदानीं तेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह
सर्वस्तोकाः पञ्चेन्द्रियाअपर्याप्ताः, एकस्मिन्प्रतरेयावन्त्यङ्गुलासोययबागमात्राणिखण्डानि तावप्रमाणत्वात् तेषां, तेभ्यश्चतुरिन्द्रियाअपर्याप्ता विशेषाधिकाः, प्रभूताङ्गुला-सङ्ख्यभागखण्डप्रमाणत्वात्, तेभ्यस्त्रीन्द्रियाअपर्याप्ता विशेषाधिकाः,प्रभूततरप्रतरामुलासङ्ख्य-भागखण्डमानत्वात्, तेभ्योऽपिद्वीन्द्रियाअपर्याप्ता विशेषाधिकाः,प्रभूततमप्रतरामुलासङ्ख्येय-भागखण्डप्माणत्वात्, तेभ्य एकेन्द्रियाअपर्याप्ताअनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानाम-नन्ततयासदा प्राप्यमाणत्वात, तेभ्योऽपि सेन्द्रिया अपर्याप्ता विशेषाधिकाः, द्वीन्द्रियाद्यपर्याप्तनामपि तत्र प्रक्षेप्ता गतं द्वितीयमल्पबहुत्वम्, अधुनाएतेषामेवपर्याप्तनामल्पबहुत्वमाह-सर्वस्तोका-श्चतुरिन्द्रियाःपर्याप्ताः, यतोऽल्पायुषश्चतुरिन्द्रियास्तत; प्रभतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते चस्तोका अपि प्रतरे यावन्त्यङ्गुलंसद्धयेयभागमात्राणि खण्डानि तावप्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियाः पर्याप्ताविशेषाधिकाः,प्रभूतप्रतराकुलसङ्ख्येयभागखण्डमानत्वात्, तेभ्योऽपिद्वीन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूततरप्रतराङ्गुलसङ्ख्ययभागखण्डमानत्वात्, तेभ्योऽपित्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततमप्रतराङ्गुलसख्खयेयभागखण्डप्रमाणत्वात्, तेभ्य एकेन्द्रियाः पर्याप्ताअनन्तगुणाः, वनस्पतिकायिकानांपर्याप्तानामनन्तमानत्वात्, तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । (गत) तृतीयमल्पबहुत्वं, सम्प्रत्येतषामेव सेन्द्रियादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह
सर्वस्तोकाः सेन्द्रिया अपर्याप्तकाः, इह सेन्द्रियेषु मध्ये एकेन्द्रिया एव बहवः तत्रापि च सूक्ष्माः तेषां सर्वलोकापन्नत्वात् सूक्ष्माश्चापर्याप्ताःसर्वस्तोकाः पर्याप्ताः सङ्घयेयगुणा इति सेन्द्रिया अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सद्धेययगुणाः,एवमेकेन्द्रियाअपिअपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सोयगुणा भावनीयाः। तथा सर्वस्तोका द्वीन्द्रियाःपर्याप्तकाः, यावन्तिप्रतरेयऽङ्गुलस्य सङ्खयेयभागमात्राणिखण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्योऽपर्याप्ताःअसङ्खयेयगुणाः,प्रतरगताङ्गुलासङ्ख्यभागखण्डप्रमाणत्वात्, एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वान्यपि वक्तव्यानि।गतंषडल्पबहुत्वात्मकं चतुर्थमल्पबहुत्वम् । सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह
'एएसिणंभंते' इत्यादि।इदंप्रागुक्तद्वितीयतृतीयाल्पबहुत्वभावनानुसारेणस्वयंभावनीयं, तत्वतो भावितत्वात् । गतमिन्द्रियद्वारम्, इदानीं कायद्वारमधिकृत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org