SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६८ व पुव्वविदेहअवरविदेहकम्म० दोवि संखेजगुणा।। एतेसिणं भंते ! नेरइयनपुंसकाणं रयणप्पभा पुढविनेरइयनपुंसकाणं जाव अधेसत्तमापुढविनेरइयणपुंसकाणं तिरिक्खजोणियनपुंसकाणं एगिंदियतिरिक्खजोणियाणं पुढविकाइयएगिदियतिरिक्खजोणियनपुंसकाणं जाव वणस्सतिकाइय० बेइंदियतेइंदियचतुरिंदियपंचिंदियतिरिक्खजोणियनपुंसकाणं जलयराणं थलयराणं खहयराणं मणुस्सनपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाण य कतरे २ हिंतो अप्पा ४, गोयमा! सव्वत्थोवा अधेसत्तमपुढविनरइयनपुंसका छठ्ठपुढविनेरइयनपुंसका असंखेज्ज० जावदोच्चपुढविणेरइणपुं० असंखे०। -अंतरदीवगमणुस्सनपुंसका असंखेनगुणा, देवकुरुउत्तरकुरुअकम्मभूमिक० दोवि संखेज्जगुणा जाव पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सनपुंसका दोवि संखेनगुणा, रयणप्पभापुढविनेरइयनपुंसका असंखे० खहयरपंचेंदियतिरिक्खजोणियनपुंसका असं० थलयर० संखिज्ज० जलयर० संखिज्जगुणा चतुरिदियतिरिक्खजोणिय० विसेसाहिया तेइंदिय० विसे० बेइंदिय०विसे० तेउक्काइयएगिदिय० असं० पुढविकाइयएगिदिय० विसेसाहिया आउक्काइय० विसे० वाउकाइय० विसेसा० वणस्सइकाइयएगिदियतिरिक्खजोणियनपुंसका अनंतगुणा ।। वृ. 'एएसिणमित्यादि प्रश्नसूत्रंसुगमं, भगवानाह-गौतम! सर्वस्तोका मनुष्यनपुंसकाः, श्रेण्यसङ्खयेयभागवर्तिप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि नैरयिकनपुंसका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावप्रमाणासुघनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषुयावन्तोनभःप्रदेशास्तावप्रमाणत्वात्तेषां तेभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात्। सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह-“एएसि णमित्यादि, सर्वस्तोका अधः-सप्तमपृथिवीनैरयिकनपुंसकाः, अभ्यन्तरश्रेण्यसङ्खयेयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपिषष्ठपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, तेभ्योऽपिपञ्चमपृथ्वीनैरयिकनपुंसका असङ्घयेयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, तेभ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असङ्खयेयगुणाः, सर्वेषामप्येतेषां पूर्वपूर्वनैरयिकपरिमाणहेतुश्रेण्यसङ्खयेयभागापेक्षयाऽसङ्खयेयगुणासङ्ग्येयगुणश्रेण्यसङ्ख्येयभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्। द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावप्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणत्वात्, प्रतिपृथिवीच पूर्वोत्तरपश्चिमदिग्भाविनो नैरयिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसङ्ख्येयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदिग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसङ्ख्येयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापनायाम् दिसाणुवाएणं सव्वथोवा अहेसत्तमपुढविनेरइया पुरथिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेनगुणा । दाहिणेहितो अहेसत्तमपुढविनेरइएहितोछट्ठीएतमाएपुढवीएनेरइया पुरथिम www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy