________________
प्रतिपत्तिः-२,
८३
सर्वस्तोकाअनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमासङ्ख्येयभागवत्याकांशप्रदेशराशिप्रमाणत्वात्, तेभ्य उपरितनग्रैवेयकदेवपुरुषाः सङ्ख्येयगुणाः, बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्त्तिनभः- प्रदेशराशिभावख्यात्, कथमेतदवसेय- मिति चेदुच्यते-विमानबाहुल्यात्, तथाहि-अनुत्तरदेवानां पञ्च विमानानि, विमानशतं तूपरित- नौवेयकप्रस्तटे, प्रतिविमानं वासङ्ख्येयादेवाः, तथा चाधोऽबोधवर्तीनि विमानानि तथा तथा देवा अपिप्राचुर्येण लभ्यन्ते, ततोऽवसीयते-अनुत्तरविमानवासिदेवपुरुषापेक्षया बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणाउपरितनग्रैवेयकप्रस्तटेदेवपुरुषाः (संख्येयगुणा) एवमुत्तरत्रापि भावना विधेया, तेभ्यो मध्यमग्रैवेय-कप्रस्तटदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यधस्तनौवेयकप्रस्तटदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यच्युतकल्पदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यारणकल्पदेवपुरुषाः सङख्येयगुणाः, यद्यप्यारणाच्युतकल्पौसमश्रेणीको समविमान-सङ्ख्याकौ चतथाऽपि कृष्णपाक्षिकास्तथास्वा- भाव्यायाचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते।
___ अथ के ते कृष्णपाक्षिकाः?, उच्यते, इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः शुक्लपाक्षिकाच, तत्र येषां किञ्चिदूनोऽपार्द्धपुद्गलपरावतः संसारस्ते शुक्लपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः उक्तञ्च॥१॥ "जेसिमवड्डो पुग्गलपरियट्टो सेसओ य संसारो ।
ते सुक्कपक्खिया खलु अहिए पुण कण्हपक्खीया।।" अत एव स्तोकाः शुक्लपाक्षिकाः, अल्पसंसाराणं स्तोकानामेव सम्भवात्, बहवः कृष्णपाक्षिकाः, दीर्घसंसारणामनन्तानमन्तानां भावात्, अथ कथमेतदवसातवयं तता कृष्णपाक्षिकाः प्राचुर्येण दक्षिमस्यां दिशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यमेवं पूर्वाचार्यैयुक्तिभिरुपबृंहितं-कृष्णपाक्षिकाः खलु दीर्घसंसारभजिन उच्यन्ते, दीर्घसंसारभाजिनश्च बहुपापोदयात्, बहुप्रापोदयाश्च क्रूरकर्माणः, क्रूरकर्माणश्चप्रायस्तथास्वाभाव्याद् तद्भवसिद्धिका अपि दक्षिणस्या दिशि समुत्पद्यन्ते, यत उक्तम्॥१॥ “पायमिह कूरकम्मा भवसिद्धीयावि दाहिणिल्लेसु।
नेरइयतिरियमणुया सुराइठाणेसु गच्छंति ॥" तत् दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽरणकल्पदेवपुरुषाः सङ्ग्येयगुणाः, तेभ्योऽपिप्राणतकल्पदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यानतकल्पदेवपुरुषाः सङ्ख्येयगुणाः, अत्रापि प्राणतकल्पापेक्षया सङ्ख्येयगुणत्वंकृष्णपाक्षिकाणां दक्षिणस्या दिशि प्राचुर्येण भावात्, एते च सर्वेऽप्यनुत्तरविमानवास्यादय आनतकल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणाद्रष्टव्याः
“आणयपाणयभाई पल्लस्सासंखभागोउ' इति वचनात्, केवलमसङ्ख्येयो भागो विचित्र इति परस्परं यथोक्तं सङ्ख्येयगुणत्वं न विरुध्यते, आनतकल्पदेवपुरुषेभ्यः सहस्र रकल्पवासिदेवपुरुषाअसङ्ख्येयगुणाः, घनीकृतस्य लोकस्यैकप्रादेक्याः श्रेणेरसङ्ख्येयतमे भागेयावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः,
Jain Education International
For Private & Personal Use Only
For
____www.jainelibrary.org