SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् २/- /६३ ८२ तत्र सङ्घयेयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्घयेयवारोत्पत्या सातिरेकाणि मनुष्यभवैः, तत्र सामान्यभिदानेऽप्येतदपराजितान्तमवगन्तव्यं, सर्वार्थसिद्धे सकृदेवोत्पादतस्तत्रान्तरासम्भवात् अन्ये त्वमिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तरमन्तर्मुहूर्त्त, सनत्कुमारादारभ्यासहस्नरान्नव दिनानि, आनतकल्पादारभ्याच्युतकल्पं यावन्नव मासाः, नवसु ग्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नव वर्षाणि, ग्रैवेयकान् यावत् सर्वत्राप्युत्कर्षतो वनस्पतिकालः, विजयादिषु चतुर्षु महाविमानेषु द्वे सागरोपमे, उक्तञ्च“आईसाणादमरस्सअंतरं हीणयं मुहुत्तंतो । आसहसारे अच्चुयनुत्तरदिनमासवासनव ॥ ॥१॥ थावरका कोसो सव्वट्टे बीयओ न उववाओ। दो अयरा विजयादिसु" इति ।। तदेवमुक्तमन्तरं, साम्प्रतमल्पबहुत्वं साम्प्रतमल्पबहुत्वं वक्तव्यं, तानि च पञ्च, तद्यथा- प्रथमं सामान्याल्पबहुत्वं, द्वितीयं त्रिविधतिर्यकपुरुषविषयं तृतीयं त्रिविधमनुष्यपुरुषविषयं चतुर्थ चतुर्विधदेवपुरुषविषयं पञ्चमं मिश्रपुरुषविषयं । तत्र प्रथमं तावदभिधित्सुराह मू. (६४) अप्पाबहुयाणि जहेवित्थीणं जाव एतेसि णं भंते! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाण य कतरे२ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखे० वाणमंतरदेवपुरिसा असंखे० जोतिसिया देवपुरिसा संखेज्जगुणा । एतेसि णं भंते! तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदिव० देवपुरिसाणं भवणवासीणं वाणमन्तराणं जोइसियाणं वेमाणियाणं सोधम्माणंजाव सव्वट्टसिद्धगाण य कतरेर हिंतो अप्पा वा बहुगा वा जाव विसेसाहिया वा । गोयमा ! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरूत्तरकुरुअकम्मभूमगमणुस्सपुरिसा दोवि संखेज्ज० हरिवासरम्मगवास अक० दोवि संखेज्जगुणा हेमवतहेरण्णवतवास अकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु० दोवि संखे० पुव्वविदेह अवरविदेहकम्मभू० दोवि संखे० अनुतरोववातियदेवपुरिसा असंखि० उवरिमगेविजदेवपुरिसा संखेज्ज० मज्झिमगेविजदेव- पुरिसा संखेज० हेट्ठिमगेविजदेव० संखे० अच्चुयकप्पे देव० संखे०, जाव आणतकप्पे देवपुरिसा संखेज० । सहस्सारे कप्पे देवपुरिसा असंखे० महासुक्क कप्पे देवपुरिसा असंखे० जाव माहिंदे कप्पे देवपुरिसा असंखे० सणकुमारकप्पे देवपुरिसा असं० ईसाणकप्पे देवपुरिसा असंखे० सोधम्मे कप्पे देवपुरिसा संखे० भवणवासिदेवपुरिसा असंखे० खहयरतिरिक्खजोणियपुरिसा असंखे० थलय रतिरिक्खजोणियपुरिसा संखे० जलयरतिरिक्खजोणियपुरिसा असंखे० वाणमंतरदेवपुरिसा संखे०, जोतिसियदेवपुरिसा संखेज्जगुणा ।। बृ. 'पुरिसाणं भंते!' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सङ्ख्येयकोटीकोटीप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकपुरुषा असङ्ख्येयगुणाः, प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तेषां, तेभ्यो देवपुरुषाः सङ्ख्येयगुणाः, बृहत्तरप्रतरासङ्ख्येयश्रेणितगताकाशप्रदेशराशिप्रमाणत्वात्, तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां मनुष्यपुरुषाणां यथा मनुष्यस्त्रणामल्पबहुत्वं (तथा) वक्तव्यं । सम्प्रति देवपुरुषाणामल्पबहुत्वमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy