SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/५५ पल्योपमे पल्योपमासङ्खयेयभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे। देवकुरुत्तरकुरुषु जन्मतो जघन्येन त्रीणि पल्योपमानि पल्योपमासङ्ख्येयभागहीनानि उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पल्योपमासङ्ख्येयभागः, कियता देशेनोनः पल्योपमासङ्ग्येयभाग? इति चेदत आह-पल्योपमासङ्ख्येयभागेनोनः, किमुक्तं भवति?-उत्कृष्टपल्योपमासङ्ग्येयभागप्रमाणादायुषोजघन्यमायुः पल्योपमासङ्ख्येयभागन्यूनं, नवरमूनताहेतुः पल्योपमासङ्येयो भागोऽतीव स्तोको द्रष्टव्यः, संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्कर्षतश्च तावदेव प्रमाणम् । सम्प्रति देवीस्त्रवक्तव्यतामाह__अक्षरगमनिका सुगमा तात्पर्यमात्रमुच्यते-देवस्त्रीणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि, तानिचभवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि, उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतानि चेशानदेवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि, उत्कर्षतोऽर्द्धपञ्चामानि-सार्द्धानिचत्वारिपल्पोमानि, एतानिच भवनवासिविशेषासुरकुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुर-कुमारदेवीनां सामान्यतो जघन्येन दश वर्षसहस्रणि उत्कर्षतोऽर्द्धपञ्चमानि पल्योपमानि, नागकुमारभवनवासिदेवस्त्राणां जघन्यतो दशवर्षसहस्राणि उत्कर्षतो देशोनंपल्योपमम्, एवं शेषाणां यावत्स्तनितकुमारीणां, व्यन्तरीणा जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं . ज्योतिषस्त्रीणांजघन्येनाष्टभागपल्योपममुत्कर्षतोऽर्द्धपल्योपमंपञ्चाशतावर्षसहस्रारभ्यधिकम्, अत्रापि विशेषचिन्तायांचन्द्रविमानवासिज्योतिषस्त्रीणांजघन्यतश्चतुर्भागमात्रंपल्योपममुत्कर्षतोऽर्द्धपल्योपमंपञ्चाशता वर्षसहस्रारधिकं, सूर्यविमानवासिज्योतिष्कदेवीनांजघन्यतश्चतुर्भागमानंपल्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपञ्चकाभ्यधिकं, ग्रहविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमानं पल्योपमं उत्कर्षतोऽर्द्धपल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमानं पल्योपममुत्कर्षतः सातिरेकं चतुर्थभागमात्रं पल्योपमं, ताराविमानज्योतिष्कदेवीनांजघन्यतोऽष्टभागमानं पल्योपममुत्कर्षतस्तदेवाष्टभागमात्रं पल्योपमं सातिरेकं सामान्यतो वैमानिकदेवीस्त्रीणां जघन्यतः पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीनां जघन्यतः पल्योपममुत्कर्षतः सप्त पल्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनांजघन्यतः पल्योपमममुत्कर्षतः पञ्चाशत्पल्योपमानि, ईशानकल्पवैमानिकदेवीनांजघन्यतः सातिरेकंपल्योपमुत्कर्षतो नवपल्योपमानि,अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीदेवीनांजघन्यतः सातिरेकं पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतच्च सूत्रं समस्तमपि क्वापि साक्षाद् दृश्यतेकचिच्चैवमतिदेशः- "एवंदेवीणंठिईभाणियव्वाजहापन्नवणाएजाव ईसाणदेवीण"मिति सम्प्रति स्त्री नैरन्तर्येण स्त्रीत्वमभुञ्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायां सूत्रकृत्तत्कालापेक्षया ये पञ्चादेशाः प्रवर्तन्ते तानुपदर्शयितुमाह मू. (५६) इत्थी णं भंते ! इस्थित्ति कालतो केवच्चिरं होइ ?, गोयमा ! एक्कोणादेसेणं जहन्नेणं एक्कं समयं उक्कोसं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमब्भहियं । एक्कणादेसेणं जहन्नेणं एक समयं उक्कोसेणं अट्ठारस पलिओवमाइंपुवकोडीपुहुत्तमब्भहियाइं । एक्केणादेसेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy