SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-२, दन्तर्मुहूर्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टित्वं मिथ्यात्वंवाप्रतिपद्यते इति, अथवाधर्मचरणमिह देशचरणं प्रतिपत्तव्यं न सर्वचरणं, देशचरणप्रतिपत्तिस्तु जघन्यतोऽप्यान्तर्मुहूर्तिकी, तस्या भङ्गबहुलत्वात्, अथोभयचरणसम्भवेकिमर्थमिहदेशचरणं परिगृह्यते?, उच्यते, देशचरणपूर्वकं प्रायः सर्वचरणमिति ख्यापनार्थम्, अत एवोक्तं वृद्धैः॥१॥ “सम्मत्तंमि उलद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागरसंखंतरा होति।" एवं “अप्परिवडिए" इत्यादि, उत्कर्षतो देशोना पूर्वकोटी, अष्टसांवत्सरिक्याश्चरणधर्मप्राप्तेस्तदूर्ध्वं चरमान्तर्मुहूर्त यावदप्रतिपति परिणामभावात्, पूर्वपरिमाणंचेदम् ॥१॥ “पुव्वस्सउ परिमाणं सयरिंखलु होति कोडिलक्खाओ। ___ छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ (७०५६००००००००००) सम्प्रति कर्मभूमिकादिविशेषस्त्रीणां वक्तव्यतामाह- अक्षरगमनिका सुगमा, भावार्थस्त्वयम्-कर्मभूमिकमनुष्यस्त्राणां क्षेत्रं कर्मभूमिकासामान्यलक्षण- मधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्राणि पल्योपमानि, तानिचभरतैरावतेशुसुषमसुष-मालक्षणेऽरके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना चात्र प्रागिवद्रष्टव्या, एवमुत्तरसूत्रद्वयेऽपि॥अत्रैव विशेषचिन्तांचिकीर्षुराह-सुगम, नवरं भरतैरावतेषु त्रीणि पल्योपमानि सुषम- सुषमायां, पूर्ववेदेहेषु क्षेत्रतः पूर्वकोटी, तत ऊर्ध्वं तत्र तथाक्षेत्रस्वाभाव्यादायुषोऽसम्भवात्, अकम्मभूमिगेत्यादि, जन्म प्रतीत्येति-अकर्मभूमिषूत्पत्तिमाश्रित्य जघन्यतो देशोनं पल्योपमं, तच्चाअठभागाधूनमपि देशोनं भवति ततो विशेषस्थापनायाहपल्योपमस्यासङ्खयेयभागेनोनं, एतच्च हैमवतहैरण्यवतक्षेत्रापेक्षया द्रष्टव्यं, तत्र जघन्यतः स्थितेरेतावप्रमाणायाः सम्भवात्, उत्कर्षतस्त्रीणि पल्योपमानि तानिच देवकुरुत्तरकुर्वपेक्षया। ___ 'संहरणंपडुच्चे'त्यादि, संहरणंनाम कर्मभूमिजायाः स्त्रियोऽकर्मभूमिषुनयनं 'तप्रतीत्य' तदाश्रित्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, इयमत्र भावना इह कर्मभूमिकाऽप्यकर्मभूमिषुसंहृताअकर्मभूमिकेति व्यवहियते, तक्षेत्रबन्धभावात्, यथा लोकेकश्चिन्मगधादिशेशात्सुराष्ट्रान् प्रति प्रस्थितो गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्रपर्यन्तग्रामप्राप्तः सन् समुत्पद्यमानेषु तथाविधेषुप्रयोजनेषु सौराष्ट्र इति व्यवह्रियते, तद्वदधिकृताऽपि, तत्र च संहृता सती काचिदन्तर्मुहूर्तजीवतिततोऽपिवाभूयोऽपि संहियते काचित्पूर्वकोट्यायुष्का यावज्जीवमपि तत्रावतिष्ठते ततो जघन्यतोऽन्तर्मुहूर्तमुक्तमुत्कर्षतो देशोना पूर्वकोटीति। आह-भरतैरावतान्यपि कर्मभूमौ वर्तन्ते तत्र चैकान्तसुषमादौ त्रीण्यपि पल्योपमानि स्थितिरस्या भवति संहरणं च संभवति तत्कथं देशोना पूर्वकोटी भण्यते ? इति, अत्रोच्यते, कर्मकालविवक्षयाऽभिधानात्, तस्य चैतावन्मात्रत्वादिति । हैमवतहैरण्यवताकर्मभूमिकमनुष्यस्त्रीणां जन्मतो जघन्येन देशोनं पल्योपमं पल्योपमासङ्घयेयभागेन न्यूनमुत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव ॥ एवं 'हरिवासरम्मए' इत्याद्यपि सूत्रत्रयं भावनीयं, नवरं हरिवर्षरम्यकयोर्जन्मतो जघन्येन द्वे 915 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy