SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ५०० जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/५/३८९ अपज्जवसिए । अन्नाणिणो तिविहा पं० तं० - अनाइए वा अपज्जवसिए अनाइए वा सपज्जवसिए साइए वा सपज्जवसिए, तत्थ साइए सपज्जवसिए जह० अंतो० उक्को० अनंतं कालं उवड्डुं पुग्गलपरियट्टं देसूणं । अंतरं आभिनिबोहियनाणिस्स जह० अंतो० उक्को० अनंतं कालं अवडं पुग्गलपरियट्टं देसूणं एवं सुय० अंतरं० मनपज्जव०, केवलनाणिणो णंत्थि अंतरं, अन्नाणि० साइसपज्जवसियस्स जह० अंतो० उक्को० छावट्ठि सागरोवमाई साइरेगाइं । अप्पा० सव्वत्थोवा मन० ओहि० असंखे० आभि० सुय० विसेसा० सट्ठाणे दोवि तुल्ला केव० अनत० अन्नाणी अनतगुणा । अहवा छव्विहा सव्वजीवा पण्णत्ता तंजहा- एगिंदिया बेदिया तेंदिया चउरिदिया पंचेदिया अनिंदिया। संचिट्ठणांतरा जहा हेट्ठा । अप्पाबहु- सव्वत्थोवा पंचेदिया चउरिंदिया विसेसा० तेइंदिया विसेसा० बेंदिया विसेसा० एगिंदिया अनतगुणा अनिंदिया अनंतगुणा ॥ वृ. 'तत्ये' त्यादि, तत्र ये ते एवमुक्तवन्तः षड्विधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनः केवलज्ञानिनोऽज्ञानिनश्च । सम्प्रत्यमीषां कायस्थितिमाह - 'आभिनिबोहियनाणी णं भंते!' इत्यादि, आभिनिबोधिकज्ञानी जघन्येनान्तर्मुहूर्तं सम्यक्त्वकालस्य जघन्यत एवावन्मात्रत्वात्, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि, एवं श्रुतज्ञानिनोऽपि वक्तव्यं, आभिनिबोधिक श्रुतज्ञानयोः परस्पराविनाभूतत्वात्, 'जत्थ आभिनिबोहियणाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिबोहियनाणं, दोवि एयाई अन्नोन्नभणुगाई' इति वचनात्, अवधिज्ञानि जघन्यत एकं समयं सा चैकसमयता मरणतः प्रतिपातेन मिध्यात्वगमनतो वा विभङ्गज्ञानभावतः प्रतिपत्तव्या, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, तान्याभिनिबोधिकज्ञानवद्भावनीयानि, मनः पर्यवज्ञानी जघन्यत एकं समयं, द्वितीय समये मरणतः प्रतिपातात्, उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, केवलज्ञानी साद्यपर्यवसितः । अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र योऽसौ सादिसपर्यवसितोऽसौ जघन्येनान्तर्मुहूर्त्तं, तत ऊर्ध्वं कस्यापि सम्यक्त्वकालभतो भूयोऽपि ज्ञानित्वभावात्, उत्कर्षतोऽनन्तं कालं यावदपार्द्ध देशोनं पुद्गलपरावर्त्तं, ज्ञानित्वात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि ज्ञानित्वभावात् । अन्तरचिन्तायामाभिनिबोधिकज्ञानिनो जघन्येनान्तरमन्तर्मुहूर्तं कस्याप्येतावत्कालेन भूयोऽप्याभिनिबोधिकज्ञानित्वभावात्, उत्कर्षतोऽनन्तं कालं यावदपार्द्धं पुद्गल परावर्त्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्य वसितत्वान्नास्त्यन्तरं, अज्ञानिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्तद्भावायोगात् पुनरज्ञानित्वं हि भवत् सादिसपर्यवसितं भवति न त्वनादिसपर्यवसितं, सादिसपर्यवसितस्य जघन्यतोऽन्तर्मुहूर्त, तावता कालेन भूयोऽपि कस्याप्य - ज्ञानत्वप्राप्तेः, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy