SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः ३ साद्यपर्यवसितः । साम्प्रतमन्तरमाह - 'चक्खुदंसणिस्स णं भंते!' इत्यादि, चक्षुर्दर्शनिनोऽन्तरंजघन्येनान्तर्मुहूर्तं तावत्प्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानात्, उत्कर्षतो वनस्पतिकालः, स च प्रागुक्तस्वरूपः, अचक्षुदर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्य नास्त्यन्तरं अचक्षुर्दर्शनित्वापगमे भूयोऽचक्षुर्दर्शनित्वायोगात्, क्षीणघातिकर्म्मणः प्रतिपातासम्भवात्, अवधिदर्शनिनो जघन्येनैकं समयमनतरं, प्रतिपातसमयानन्तरसमय एव कस्यापि पुनस्तल्लाभभावात् क्वचिदन्तर्गुहूर्त्तमिति पाठः, स च सुगमः तावता व्यवधानेन पुनस्तल्लाभभावात्, न चायं निर्मूलः पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात्, उत्कर्षतो वनस्पतिकालः, तावतः कालादूर्द्धमवश्यमवधिदर्शनसम्भवात्, अनादिमिध्याध्ष्टेरप्यिरोधात्, ज्ञानं हि सम्यक्त्वसचिवं न दर्शनमपीति भावना, केवलदर्शनिनः साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शनिनो, देवनारककतिपयगर्भजतिर्यकपश्चेन्द्रियमनुष्याणामेव तद्भावात्, चक्षुर्दर्शनिनोऽसङ्घयेयगुणाः, संमूर्च्छिमतिर्यकपञ्चेन्द्रियचतुरिन्द्रियाणामपि तस्य भावात्, केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, एकेन्द्रियाणामप्यचक्षुर्दर्शनित्वात् ॥ मू. (३८५) अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा - संजया असंजया संजयासंजया नोसंजयानो असंजयानोसंजयासंजया । संजए णं भंते! ० ? जह० एक्कं समयं उक्को० देसूणा पुव्वकोडी, असंजया जहा अन्नाणी, संजया संजते जह० अंतोमु० उक्को० देसूणा पुव्वकोडी, नोसंजतनो असंजयनोसंजयासंजए सातीए अपज्जवसिए, संजयस्स संजयासंजयस्स दोण्हवि अंतरं जह० अंतोमु० उक्को० अवडंपोग्गलपरियट्ट देसूणं, असंजयस्स आदिदुवे नत्यि अंतरं, सातीयस्स सपज्जवसियस्स जह० एवं स० उक्को० देसूणा पुव्वकोडी, चउत्थगस्स नत्थि अंतरं । ४९७ अप्पबहु० सव्वत्थोवा संजयासंजया संजया असंखेज्जगुणा नोसंजयनो असंजयनोसंजयाजया अनंतगुणा असंजया अनंतगुणा ।। सेत्तं चउव्विहा सव्वजीवा पन्ता ॥ वृ. 'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण सर्वजीवाश्चतुर्विधाः प्रज्ञप्तास्तद्यथा - संयताः असंयताः संयतासंयताः नोसंयतानो असंयतानो संयतासंयताः । कायस्थितिमाह - 'संजणं भंते!' इत्यादि, संयतो जघन्यत एकं समयं, सर्वविरतिपरिणामसमयानन्तरसमय एव कस्यापि मरणात्, उत्कर्षतो देशोना पूर्वकोटी, असंयतस्त्रिविधःअनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्रानाद्यपर्यवसितोयोन जातुचिदपि संयमं प्राप्स्यति, अनादसपर्यवसितो यः संयमं लप्स्यति, लब्धेन च तेनैव संयमने सिद्धिं गन्ता, सादिसपर्यवसितो सर्वविरतेर्देशविरतेर्वा परिभ्रष्टः, स हि सादि नियमभाविसपर्यवसितत्वापेक्षया चसपर्यवसितः, स च जघन्येनान्तर्मुहूर्तं तावता कालेन कस्यापि संयतत्वलाभात् 'तिण्हं सहस्स 9 132 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy