________________
प्रतिपत्तिः-६,
४६९
उक्को० तिन्निपलिओवमाइं पुवकोडिपुहुत्तमभहियाई। एवंमणुस्सस्समणुस्सीएवि॥नेरइयस्स अंतरं जह० अंतोमुं० उक्कोसेणं वणस्सतिकालो । एवं सव्वाणं तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु० उक्को० सागरोवमसतपुहुत्तं सातिरेगं। __अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेजगुणा नेरइया असंखेजगुणा तिरिक्खजोणिणीओअसंखेजगुणाओ देवाअसंखेजगुणा देवीओ संखेजगुणाओतिरिक्खजोणिया अनंतगुणा । सेत्तं सत्तविहा संसारसमावन्नगा जीवा ॥
वृ. 'तत्ये' त्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिकास्तिर्यग्योनिक्यः मनुष्या मानुष्यः देवा देव्यः ॥ तत्रामीषां सप्तानामपि क्रमेण स्थितमाह-'नेइरयस्स णं भंते !' इत्यादि सप्तसूत्री, नैरयिकस्य जघन्येन दशवर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि।तिर्यग्योनिकस्यजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि । एवं तिर्यग्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि । देवसूत्रं नैरयिकवत् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि, उत्कर्षतः पञ्चपञ्चाशत् पल्योपमानि, ईशानदेवीनामपरिगृहीतानामुत्कर्षत एतावत्स्थितिकत्वात् ।।
सम्प्रतिकायस्थितिमाह-'नेरइयाणंभंते!' इत्यादि, नैरयिकाणांयदेव भवस्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, नैरयिकस्य मृत्वा भूयोऽनन्तरं नैरयिकेषूत्पादाभावात् । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहूर्त, तदनन्तरमन्यत्रोत्पादात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्घयेया लोकाः असङ्ख्येयाः पुद्गलपरावर्तीः, तेपुद्गलपरावर्ता आवलिकाया असङ्खयेयो भागः, अस्य भावार्थव्याख्या प्रागिव । तिर्यग्योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त तत ऊर्ध्वं मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तानि निरन्तरंसप्तसुपूर्वकोटयायुष्केषुभवेष्वष्टमेचभवे देवकुर्वादिषूत्पन्नाया द्रष्टव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च, देवस्य देव्याश्च यैव भवस्थिति सैव कायस्थिति, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावेनोत्पादाभावात् ।
साम्प्रतमेषामन्तरं चिचिन्तयिषुराह-'नेरइयस्स णं भंते !' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्मुहूर्त, तच्च नरकादुद्ध तस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मरणतः परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्षतोऽनन्तं कालं, सचानन्तः कालो वनस्पतिकालः, नरकादुद्धृत्तस्य पारम्पर्येणानन्तं कालं वनस्पतिष्ववस्थानात्, तिर्यग्योनिकस्य जघन्येनान्तरमन्तमुहूर्त, तच्च तिर्यग्योनिकभवादुद्ध त्यात्रान्तर्मुहूर्त्तस्थित्वा भूयस्तिर्यग्योनित्वेनोत्पद्यमानस्य वेदितव्यम्, उत्कर्षतः सागरोपमशतपृथकत्वंसातिरेकम्।तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः।
__ सम्प्रत्येतेषामेव सप्तानां पदानामल्पबहुत्वमाह-एएसि म'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-सर्वस्तोको मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्याअसङ्खयेयगुणाः, संमूर्छिमनुष्याणां श्रेण्यसङ्खयेयप्रदेशराशिप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकाः स्त्रीयोऽसङ्ख्येयगुणाः, प्रतरासङ्ख्येयभागवर्तिश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो देवाः सङ्खयेयगुणाः, वानमन्तर
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org