SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४६८ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/३६४ प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्तकाः प्रदेशार्थतया निगोदानां स्तोकत्वात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः निगोदानामसङ्घयेयगुणत्वात्, एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः । तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्घयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्य निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः एकैकबादरपर्याप्तनिगोदनिश्रया सङ्ख्याऽतीतानां बादरपर्याप्तनिगोदानामुत्पादात्, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्यातगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सङ्घयेयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता सङ्घयेयगुणाः, अत्र युक्तिर्निगोदानां द्रव्यार्थतया चिन्तायामिव तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्योबादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतयाऽनन्तगुणाः प्रतिबादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्घयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्घयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सङ्घत्येयगुणाः अत्र युक्तिर्निगोदजीवानां द्रव्यार्थतया चिन्तायामिव तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पयप्तिभ्यो द्रव्यार्थतया चिन्तितेभ्यो बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः प्रतिबादरनिगोदपर्याप्तजीवमसङ्घयेयानां लोकाकाशप्रदेशप्रमाणानां प्रदेशानां भावात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घत्येयुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्घयेयगुणाः, युक्तिरत्र निगोदजीवानां प्रदेशार्थतया सङ्घयेयगुणचिन्तायामिव तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यः प्रदेशार्थतया चिन्तितेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनां सद्भावात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्घयेयगुणाः, अत्र युक्तिर्निगोदानां प्रदेशार्थतया चिन्तायामिव । उपसंहारमाह-'सेत्त’मित्यादि, एते षडविधसंसारसमापन्नका जीवाः ।। प्रतिपत्तिः - ५ समाप्ताः प्रत्तिपत्ति: - ६ "सप्त विधा" वृ. तदेवमुक्ता षड्विधप्रतिपत्ति, अधुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाहमू. (३६५) तत्थ जे ते एवमाहंसु सत्तविहा संसारसमावन्नगा ते एवमाहंसु, तंजहा - नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ ॥ नेरतियस्स ठिती जहन्त्रेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं, तिरिक्खजोणियस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पनिओवमाई, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाणं, देवीणं जहन्नेणं दसवाससहस्साइं उक्कोसेणं पणपन्नपलिओवमाणि । नेरइयदेवदेवीणं जच्चैव ठिती सच्चेव संचिट्टणा । तिरिक्खजोणिणीणं जहन्त्रेणं अंतोमु० For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy