________________
प्रतिपत्ति: - 9,
४३
कापोतलेश्या तृतीयस्यां पृथिव्यां केषुचिन्नरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुर्थ्यां नीललेश्या, पञ्चम्यां केषुचिन्नरकावासेषु नीललेश्या, शेषेषु कृष्णलेश्या, षष्ट्यां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्तञ्च व्याख्याप्रज्ञप्तौ
119 11
"काऊ य दोसु तइयाए मीसिया नीलीया चउत्थीए पंचमियाए । मीसा कण्हा तत्तो परमकण्हा ।।"
इन्द्रियद्वारे पञ्च इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुश्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाताः - वेदनासमुद्घातः कषायसमुद्घातो वैक्रियसमुद्घातो मारणान्तिकसमुद्घातश्च । संज्ञिद्वारे संज्ञिनोऽसंज्ञिनश्च, तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नास्ते संज्ञिन इति व्यपदिश्यनते, ये तु संमूर्च्छनजेभ्यस्तेऽसंज्ञिनः, ते च रत्नप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणायां अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात्, अत एवाहुर्वृद्धा:
119 11
“असन्नी खलु पढमं दोच्चं व सिरीसवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ॥ छट्ठि य इत्थियाओ मच्छा मणुया य सत्तमिं पुढविं । एसो परमोवाओ बोद्धवो नरयपुढवीसु ॥
वेदद्वारे नपुंसकवेदाः । पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः । दृष्टिद्वारे त्रिविधध्ष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिथ्याध्ष्टयश्च, दर्शनद्वारे त्रीणि दर्शनानि तद्यथाचक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं च ।
ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथाआभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽत्राज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:- ये नारका असंज्ञिनस्तेऽपर्याप्तावस्थायां द्वयज्ञानिनः पर्याप्तावस्थायां तु त्र्यज्ञानिनः संज्ञिनस्तूमय्यामप्यवस्थायां त्र्यज्ञानिनः, असंज्ञिभ्य ह्युत्पद्यमानास्तथाबोधमान्द्यादपर्याप्तावस्थायां नाव्यक्तमप्यवधिमाप्नुवन्तीति ।
.
योगोपयोगाहारद्वाराणि प्रतीतानि । उपपातो यथा व्युत्क्रान्तिपदे प्रज्ञापनायां तथा वक्तव्यः, पर्याप्तपञ्चेन्द्रितिर्यग्मनुष्येभ्योऽसङ्ख्यातवर्षायुष्कवर्जेभ्यो वक्तव्यो न शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहस्त्रणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्घातमधिकृत्य मरणचिन्ता प्राग्वत् । उद्वर्त्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा वक्तव्या, अनन्तरमुद्धृत्य संज्ञिपञ्चेन्द्रियतिर्यङ्गनुष्येष्वसङ्ख्यातवर्षायुष्कवर्जितेष्वागच्छन्तीति भावः, अत एव गत्यागतिद्वारे द्वयागतिका द्विगतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह- 'सेत्तं नेरइया' । उक्ता नैरयिकाः, सम्प्रति तिर्यकपञ्चेन्द्रियानाह
मू. (४१) से किं तं पंचेंदियतिरिक्खजोणिया ?, २ दुविहा पन्नत्ता, तजहा - संमुच्छिमपंचेदियतिरिक्खजोणिया य गब्भवक्कंतियपंचिंदियतिरिक्खजोणिया य ।।
॥२॥
वृ. अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिका गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाश्च, तत्र संमूर्च्छनं संमूर्च्छा - गर्भोपपातव्यतिरेकेणैव यः प्राणिनामुत्पादस्तेन निर्वृत्ताः संमूर्च्छिमाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org