________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४०
बहुलवचनात्करणेऽनीयप्रत्ययः, अपरा भवान्तर- वैरिनारकप्रतिघातनार्थमुत्तरकालं या विचित्ररूपा वैक्रियिकी अवगाहनासा उत्तरवैकुर्विकी, तत्र या सा भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभागः, स चोपपातकाले वेदितव्यः, तथाप्रयत्नभावात्, तत्कर्षतः पञ्चधनुःशतानि, इदं चोत्कर्षतः प्रमाणं सप्तमपृथिवीमधिकृत्य वेदितव्यं प्रतिपृथिवि तूत्कर्षतः प्रमाणं सङ्ग्रहणिटीकातो भावनीयं, तत्र सविस्तरमुक्तत्वात्, उत्तरवैकुर्विकी जघन्यत्मुङ्गुलसङ्घयेयभागो न त्वसङ्घयेयभागः, तथाप्रयत्नाभावात्, उत्कर्षतो धनुःसहस्रमिति, इदमप्युत्कर्षपरिमाणं सप्तमनरकपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तु सङ्ग्रहणिटीकातः परिभावनीयं, संहननद्वारे ।
·
सिणं भंते त्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, कस्मादसंहननादि इति चेद् अत आह—'नेवट्ठी' इत्यादि, नैव तेषां शरीराणामत्थीनि, नैव शिरा-घमनिनाड्यो, नापि स्नायूनिशेषशिराः अस्थिनिचयात्मकं च संहननमतोऽस्थ्याद्यभावादसंहननानि शरीराणि, इयमत्र भावना - इह तत्ववृत्या संहननमस्थिनिचयात्मकं यत्तु प्रागेकेन्द्रियाणां सेवार्त्तसंहननमभधायि तदीदा - रिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं, देवा अपि यदन्यत्र प्रज्ञापनादौ वज्रसंहननिन उच्यन्ते तेऽपि गौणवृत्या, तथाहि - इह याध्शी मनुष्यलोके चक्रवत्यादेर्विशिष्टवज्रर्षभनाराचसंहननिनः सकलशेषमनुष्यजना- साधारणा शक्ति " दोसोला बत्तीसा सव्वबलेणं तु संकलनिबद्ध"मित्यादिका, ततोऽधिकतरा देवानां पर्वतोत्पाटनादिविषया शक्ति श्रूयते न च शरीरपरिक्लेश इति तेऽपि वज्रसंहननिन इव वज्रसंहननिन उक्ता न पुनः परमार्थतस्ते संहननिनः, ततो नारकाणामस्थ्यभावात्संहननाभावः, एतेन योऽपरिणत भगवत्सिद्धान्तसारो वावदूकः सिद्धान्तबाहुल्यमात्मनः ख्यापयन्त्रेवं प्रललाप - "सुत्ते सत्तिविसेसो संघयणमिहऽट्ठिनिचयो "त्ति, इति सोऽपाकीर्णोद्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थिनिचयात्मकस्य संहननस्याभिधानात्, अस्थ्यभावे संहननप्रतिषेधादिति । अपरस्त्वाह - नैरयिकाणामस्थ्यभावे कथं शरीरबन्धोपपत्ति ? नैष दोषः, तताविधपुद्गलस्कन्धवन् शरीरबन्धोपपत्तेः, अत एवाह
'जे पोग्गला अनिट्ठा' इत्यादि, ये पुद्गलाः 'अनिष्टाः' मनस इच्छामतिक्रान्ताः, तत्र किञ्चित्कमनीयमपि केषाञ्चिदनिष्टं भवति तत आह-न कान्ताः सकान्ता - अकमनीयाः, अत्यन्ताशुभवर्णपितत्वात्, अत एव न प्रियाः, दर्शनापातकालेऽपि न प्रियबुद्धिमात्मन्युत्पादयन्तीति भावः, 'अशुभाः' अशुभरसगन्धस्पर्शात्कत्वात्, 'अमनोज्ञाः ' न मनः प्रहादहेतवो, विपाकतो दुःखजनकत्वात्, अमनआपाः- न जातुचिदपि भोज्यतया जन्तूनां मनांस्याप्वन्तीति भावः, ते ताषां ‘संङ्घातत्वेन' तथारूपशरीरपरिणतिभावेन परिणमन्ति ।
संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शुभानि वयं विकुर्विष्याम इत्यभिसन्धिना विकुर्वितुमारभन्ते तथाऽपि तानि तेषामत्यन्ताशुभतथाविधनामकर्मोदयतोऽवीताशुभतराण्युपजायन्ते इति तान्यपि हुण्डसंस्थानानि ।
कषायद्वारं संज्ञाद्वारंच प्राग्वत्, लेश्याद्वारे आद्यास्तिम्न लेश्याः, तत्राद्ययोर्द्वयोः पृथिव्योः
For Private & Personal Use Only
www.jainelibrary.org
४२
Jain Education International