________________
४३८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-२/३३० 'आणयपाणयआरणअच्चुएसु' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! आनतप्राणतारणाच्युतेषु कल्पेषु देवा असङ्खयेयाः, ते च समये समये एकैकापहारेणापहियमाणाः पल्योपमस्य-क्षेत्रपल्योपमस्य सूक्ष्मस्यासङ्घयेयभागमात्रेण कलेनापहियन्ते, किमुक्तं भवति ?सूक्ष्मक्षेत्रपल्योपमासङ्खयेयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं ग्रैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः।
सम्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह- सोहम्मीसाणेसु णं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां 'किंमहालया' इति किं महती शरीरावगाहना प्रज्ञप्ता?, भगवानाह-गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीया साजघन्यतोऽङ्गुलासङ्खयेयामागमात्रा उत्कर्षतः सप्तरत्नयः, तत्रयासा उत्तरवैक्रिया साजघन्यतोऽ-कुलस्य सङ्ख्येया भागंयावत् न त्वसङ्खयेयतथाविधप्रयत्नाभावात्, उत्कर्षत एकं योजनशतसहस्र, एवंतावद्वाच्यंयावदच्युतकल्पो, नवरंसनत्कुमारमाहेन्द्रयोरुत्कर्षतोभवधारणीया षड्रलयः, ब्रह्मलोकलान्तकेषुपञ्च, महाशुक्रसहसूरयोश्चत्वारः, आनतप्राणतारणाच्युतेषुत्रयः, 'गेवेज्जगदेवा णं भंते !' इत्यादि, ग्रैवेयकदेवानां भदन्त ! किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह- गौतम ! ग्रैवेयकदेवानामेकं भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरवैक्रयं, शक्ती सत्यामपि प्रयोज- नाभावात्तदकरणात्, तदपि च भवधारणीयं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमुत्कर्षतो द्वौ रत्नी, एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एकारलिरिति वाच्यम्
मू. (३३१) सोहम्मीसाणेसुणं देवाणं सरीरगा किंसंघ्रयणी पन्नत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी पन्नता ?, नेवढि नेव छिरा नवि हारूणेव संघयणमत्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघातत्ताए परिणमंति जाव अनुतरोववातिया।
सोहम्मीसाणेसुदेवाणंसरीरगा किंसंठितापन्नत्ता?, गोयमा! दुविहा सरीरा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णंजे ते भवधारणिज्जा ते समचउरंससंठाणसंठिता पन्नत्ता, तत्थणं जे ते उत्तरवेउब्विया ते नानासंठाणसंठिया पन्नत्ता जाव अचुओ, अवेउब्विया गेविजणुत्तरा, भवधारणिज्जा समचउरंससंठाणसंठिता उत्तरवेउब्बिया नथि।
वृ. सम्प्रति संहनमधिकृत्याह- सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि' किं संहननं येषां तानि तथा प्रज्ञप्तानि?, भगवानाह-गौतम ! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्यास्थिरचनात्मकत्वात् तेषांचास्थ्यादीनासम्भवात्, तथा चाह-'नेवट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-ग्रीवाधमनि पि स्नायूंषि-शेषं शिराजालं, किन्तु ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां सङ्घाततया परिममन्ति ततः संहननाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानं देवानां । सम्प्रति संस्थानप्रतिपादनार्थमाह- सोहम्मीसाणेसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तद्यथाभवधारणीयानि उत्तरवैक्रियापिच, तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञप्तं, देवानां भवप्रत्ययतःप्रायः शुभनाम-कर्मोदयभावात्, तत्र यदुत्तरवैक्रयं तत् नानासंस्थानसंस्थितं प्रज्ञप्तं, तस्येच्छयानिर्वर्त्यमानत्वात्, एवंतावद्वक्तव्यं यावदच्युतः कल्पः, गेविज्जगदेवाण'मित्यादि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org