________________
प्रतिपत्तिः-३, वै०-उद्देशकः२
४३७ किंचिविसेसाहिए परिक्खेवेणंपन्नत्ते' इदंच पूर्ववद्भावनीयं, देवो नामहर्द्धिको यावन्महाभागः यावत्करणात् महाद्युतिक इत्यादिपरिग्रहः ।
'जावइणामेव' 'इणामेवेति यावदिदानीमेव, अनेन चप्पुटिकावयानुकरणपुरस्सरम्यन्तं कालस्तोकत्वंइतिकृत्वा केवलल्पं-परिपूर्णजम्बूद्वीपंद्वीपंत्रिभिरप्सरोनिपातैः-तिसृभिश्चप्पुटिकाभिरित्यर्थ त्रिसप्तकृत्वः-एकविंशतिवारान् ‘अनुपरिवर्त्य प्रादक्षिण्येनपरिभ्रम्य 'हव्वं शीघ्रमागच्छेत् 'सेणंदेवे' इत्यादि, सदेवस्तयासकलदेवजनप्रसिद्धया पूर्वदृष्टान्तभावितया उत्कृष्टया' अतिशायिन्यातुरियाएचवलाएचंडाएसिग्घाएउखुयाएजवणाएछेयाए अमीषां पदानांव्याख्यानपूर्ववत्, 'दिव्यया देवगत्याव्यतिव्रजन्यावदेकाहंवा द्वयहंवा उत्कर्षतः षण्मासानव्यतिव्रजन तत्रास्त्येककं विमानं यद् व्यतिव्रजेत् अस्त्येककं विमानं यन्न व्यतिव्रजेत्, ‘एवंमहालियाणं' एतावंति महान्ति गौतम ! विमानानि प्रज्ञप्तानि, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि।
'सोहम्मीसाणेसुण'मित्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्विमानानि किंमयानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! सर्वात्मना रनमयानि अच्छानि यावप्रतिरूपाणि । 'तत्थ ण' मित्यादि, तत्र-तेषु विमानेषुबहवोजीवाः-पृथ्वीकायरूपाः पुद्गलाश्च अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति उत्पद्यन्ते, तथा चीयन्ते' चयमुपगच्छन्ति उपचीयन्ते' उपचयमुपगच्छन्ति, एतत् पुद्गलापेक्षं विशेषणं, पुद्गलानामेव चयोपचयधर्मकत्वात्, शाश्वतानि भदन्त ! विमानानि द्रव्यार्थतया प्रज्ञप्तानि?, वर्णपर्यायैरसपर्यायैर्गन्धपर्यायैः स्शपर्यायैरशाश्वतानिप्रज्ञप्तानि, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि।
___ 'सोहम्मीसाणेसुणंभंते!' इत्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवाः कुतोयोनेरुद्धृ. त्योत्पद्यन्ते? किं नैरयिकेभ्यः ? इत्यादि यथा 'व्युत्क्रान्ती' व्युत्क्रान्त्याख्ये षष्ठे पदे प्रज्ञपनायां तथा वक्तव्यं यावदनुत्तरोपपातिका देवाः, इह तु ग्रन्थगौरवभयान लिख्यते भूयान् हि स ग्रन्थः सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते? इति निरूपणार्थमाह- सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात, कियन्त उत्पद्यन्ते?, भगवानाह-गौतम! जघन्येन एको द्वौ वात्रयोवा, उत्कर्षतःसङ्खयेया वाऽसङ्खयेयावा तिरश्चामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वक्तव्यं यावत्सहस्ररकल्पः, ‘आणयदेवा णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! जघन्येनैको द्वौ त्रयो वा उत्कर्षतः सङ्खयेयाः, मनुष्यणामेव तत्रोत्पादात्, तेषां कोटीकोटीप्रमाणत्वात्, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः॥
सम्प्रति कालतोऽपहारतः परिमाणमाह- सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवाः समये समये एकैकदेवापहारेणापहियमाणा अहियमाणाः कियता कालेनापहियन्ते?, भगवानाह-गौतम ! असङ्खयेयास्ते देवाः समये समये एकैकदेवापहारेणापहियमाणाः २ असङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एतावता किमुक्तं भवति ?- असङ्खयेयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणाः सौधर्मेशानदेवा इति, एवमुत्तरत्रापिभावना भावनीया, एतच कल्पनामात्रं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाचनापि केनाप्यपहृताः स्यु, तथा चाह-'नो चेवणं अवहिया सिया' एवं निरन्तरं यावद्वक्तव्यं यावत्सहस्रारकल्पदेवाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org