________________
प्रतिपत्तिः
- ३, दीव०
४०९
श्रमण ! हे आयुष्मन् ! |
सम्प्रति लवणादिषु मत्स्यकुलकोडिपरिज्ञानार्थमाह- 'लवणे णं भंते!' इत्यादि, लवणे भदन्त ! समुद्रे 'कति' किंप्रमाणानि जातिप्रधानानि कुलानि २ जातिकुलानां कोट्यो जातिकुलकोट्यः मत्स्यानां जातिकुलकोटयो मत्स्यजातिकुलकोटयस्तासां योनिप्रमुखाणि - योनिप्रवाहाणि शतसहस्राणि प्रज्ञप्तानि ?, इहैकस्यामपि योनौ अनेकानि जातिकुलानि भवन्ति, यथा एकस्यामेव छगणयोनौ कृमिकोटिकुलमिलिकाकुलं वृश्चिककुलमित्यादि तत उक्तं योनिप्रमुखसतसहस्राणीति, भगवानाह - गो० ! सप्त जलमत्स्यजातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि, एवं कालोदसूत्रं स्वयम्भूरमणसूत्रमपि भावनीयं, नवरं कालोदे नव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि, स्वयम्भूरमणसमुद्रेऽर्द्धत्रयोदश । अधुना लवणादिषु मत्स्यप्रमाणमभिधित्सुराह - 'लवणे णं भंते !' इत्यादि, लवणे भदन्त समुद्रे मत्स्यानां केमहालिका' किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गो० जघन्येनाङ्गुलासङ्घयेयभाग उत्कर्षेण पञ्च योजनशतानि ।
एवं कालोदस्वयम्भूरमणसमुद्रविषये अपि सूत्रे भावनीये, नवरं कालोदे उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहनम् ॥
मू. (३०४) केवतिया णं भंते! दीवसमुद्दा नामधेज्जेहिं पन्नत्ता ?, गोयमा ! जावतिया लोगे सुभा नामा सुभा वण्णा जाव सुभा फासा एळतिया दीवसमुद्दा नामधेज्जेहिं पन्नत्ता ।
केवतिया णं भंते! दीवसमुद्दा उद्धारसमएणं पन्नत्ता ?, गोयमा ! जावतिया अड्डाइज्जाणं सागरोवमाणं उद्धारसमया एवतिया दीवसमुद्दा उद्धारसमएणं पन्नत्ता ।।
बृ. 'केवइया णं भंते!' इत्यादि, कियनतो भदन्त ! द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः ?, यदि नाम सङ्ख्यातुमिष्यन्ते तदा कियन्तस्ते प्रज्ञप्ता इत्यर्थः, इयमत्र भावना - इहैकैकेन नाम्नाऽसङ्घयेया द्वीपा असङ्खयेयाः समुद्राः प्रोच्यन्ते अन्तिमान् देवादीन् पञ्च द्वीपान् पञ्च समुद्रान् मुक्त्वा, ततः सर्वसङ्घयया कियन्ति द्वीपसमुद्राणां नामानि ? इति, भगवानाह - गौतम ! यावन्ति लोके सामान्यतः 'सुभानि नामानि' शङ्खचक्रस्वस्तिककलशश्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शा' शुभवर्णवामानि शुभगन्धनामानि शुभरसनामानि शुभस्पर्शनामानि, एतावन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः । सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह
'केवइया णं भंते !' इत्यादि, कियन्तो भदन्त ! द्वीपसमुद्राः 'उद्धारेण' उद्धारपल्योपमसागरोपमप्रमामेन प्रज्ञप्ताः ?, भगवानाह - हे गौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमयाः- एकैकेन सूक्ष्मवालाग्रापहारसमया एतावन्तो द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः, उक्तञ्च119 11 “उद्धारसागराणं अड्डाइज्जाण जत्तिया समया ।
दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया ।।"
मू. (३०५) दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पुग्गल परिणामा ?, गोयमा ! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि । दीवसमुद्देसु णं भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वा ?, हंता ! गोयमा ! असति अदुवा अनंतखुत्तो ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org