SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/३०० सूर्यवरावभाससमुद्रात्परं यदस्ति तदाह-'सूरवरावभासण्णं समुदं देवे नामं दीवे व ' इत्यादि, सूर्यवरावभासंणमिति पूर्ववत् समुद्रं देवो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति । 'देवेणं भंते! दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिए गोयमा ! समचक्कवालसंठिए नो विसमचक्कवालसंठिए, देवेणं भंते ! दीवे केवइयं चक्कवालविक्खंभेणंकेवइयंपरिक्खेवेणंपन्नत्ते?,गोयमा! असंखेज्जाइंजोयणसहस्साइं चक्कवालविक्खंभेणं, असंखेजाइंजोयणसयसहस्साइंपरिक्खेवेणंपन्नत्ते, सेणंएगाएपउमवरवेइयाए एगेणं वनसंडेणं परिक्खित्ते' सुगम, नवरम् एकया पद्मवरवेदिकयाऽष्टयोजनोच्छ्रयजगत्युपरिभाविन्येतिद्रष्टव्यं, एवमेकेन वनषण्डेनच, इदंतुसूत्रंबहुषुपुस्तकेषुन श्यतेकेषुचित् तहेवेत्यतिदेश इति लिखितं । ___'कइणं भंते!' इत्यादि, कति भदन्त ! देवस्य द्वीपस्य द्वाराणि प्रज्ञप्तानि?, भगवानाहगौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं ।। 'कहिणं भंते ! देवस्स दीवस्से'त्यादि, क भदन्त ! देवस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाहगौतम! देवद्वीपपूर्वार्द्धपर्यन्ते देवसमुद्रस्य पूर्वा (पश्चा)र्द्धस्य पश्चिमदिशि अत्र' एतस्मिन्नवकाशे विजयं नाम द्वारं प्रज्ञप्तं, प्रमाणं वर्णकश्च जम्बूद्वीपविजयद्वारवत्, नामान्वर्थसूरमपि तथैव ॥ 'कहिणंभंते' इत्यादि, कन भदन्त! विजयस्य देवस्य विजयानाम राजधानी प्रज्ञप्ता?, भगवानाहगो० विजयस्यद्वारस्यपश्चिमदिशितिर्यगसङ्खयेयानियोजनशतसहस्राण्यवगाडात्रान्तरेविजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, साचजम्बूद्वीपविजयद्वाराधिपतिविजयदेवस्येव वक्तव्या एवं वैजयन्तजयन्तापरिजिताद्वारवक्तव्यताऽपि भावनीया, ज्योतिषवक्तव्यता सर्वाऽप्यसङ्खयेयतया वक्तव्या, नामान्वर्थचिन्तायामपि देवभद्रदेवमहाभद्रौ वक्तव्यौ, शेषं सर्वमरुणद्वीपवत्॥ देवण्णं दीव'मित्यादि, देवंणमिति पूर्ववत्द्वीपं देवः समुद्रो वृत्तोवलयाकारसंस्थानसंस्थितोयावत्परिक्षिप्य तिष्ठति, अत्रापिसमचक्रवालादिसूत्राणितथैव नवरं देवोदकस्य समुद्रस्य विजयद्वारं देवोदसमुद्रपूर्वार्द्धपर्यन्ते नागद्वीपपूर्वा(पश्चा)र्द्धपश्चिमदिशिअत्रेति वक्तव्यं, राजधानी विजयद्वारस्यपश्चिमदिशिअत्रेति वक्तव्यं, राजधानी विजयद्वारस्यपश्चिमदिशिदेवसमुद्र तिर्यगसङ्खयेयानि योजनशतसहस्राण्यवगाह्य वक्तव्या। एवं वैजयन्तजयन्तापराजितद्वारवक्तव्यताऽपि भावनीया, नामान्वर्थचिन्तायामपि देववरदेवमहावरौ देवी, शेषं तथैव यथा देवो द्वीपो, नवरं नागे द्वीप नागभद्रनागमहाभद्रौ, यथा देवः समुद्रःतथा नागः समुद्रः, नवरंनागसमुद्रे नागवरनागमहावरौ, एवं यक्षादयोऽपिद्वीपसमुद्रा वक्तव्याः, नवरं यक्षे द्वीपे यक्षभद्रयक्षमहाभद्रौ देवी, यक्षे समुद्रे यक्षवरयक्षमहावरौ, भूते द्वीपे भूतभद्रभूतमहाभद्रौ, भूते समुद्रेभूतवरभूतमहावरौ, स्वयम्भूरमणेद्वीपे स्वयम्भूरमणभद्रस्वयम्भूरमणमहाभद्रौ, स्वयम्भूरमणे समुद्रे स्वयम्भूवरस्वयम्भूमहावरौ, इह देवादिषु पञ्चसु पञ्चसु द्वीपेषु पञ्चसु २ समुद्रेषु त्रिप्रत्यवतारता नास्ति, तत एकैकतयैते वक्तव्याः तथा चाह-“देवेनागे जक्खे भूए य सयम्भूरमणे अएकेके भाणियव्वो।" मूलटीकाकारोऽप्याह "देवादयोऽन्त्याएकाकारा" इति, चूर्णिकारोऽप्याह-“देवेनागेजक्खेभूएय सयंभूरमणे एतेऽन्तिमाः पञ्च एकैकाः प्रतिपत्तव्याः" नन्दीश्वरादिद्वीपानां स्वयम्भूरमणद्वीपपर्यवसानानामन्वर्थचिन्तायांवाप्यः पुष्करिण्यः च शब्दाद् दीर्घिकादयश्चक्षीरो(क्षोदो)दकपरिपूर्णा वक्तव्याः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy