SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, दीव० ३७९ -उच्छ्वासाश्च मुहूर्ते त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्तञ्च॥१॥ “तिन्नि सहस्सा सत्तय सयाई तेवत्तरिच ऊसासा। एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं॥" त्रिंशन्मुहूर्तप्रमाणोऽहोरात्रः, पञ्चदशाहोरात्रः पक्षः, द्वौ पक्षौ मासः, द्वौ मासौ ऋतुः, ते चषट्, तद्यथा-प्रावृड् वर्षारात्रः शरद् हेमन्तः वसन्तः ग्रीष्मश्च, तत्र-'आषाढाद्या ऋतव' इति वचनाद् आषाढश्रावणौ प्रावृट् भाद्रपदास्वयुजौ वर्षारात्र कार्तिकमार्गशीर्षों शरद् पौषमाधौ हेमन्तः फाल्गुनचैत्रौवसन्तः वैशाखज्येष्ठौ ग्रीष्मः, ये त्वभिदधतिवसन्ताद्या ऋतवः (इतिवसन्तः) ग्रीष्मः प्रावृटशरदौ हेमन्तः शिशिर इति षडिति तदप्रमाणसमवसातव्यं, जैनमतोत्तीर्णत्वात्, त्रय ऋतवोऽयनं, द्वेअयने संवत्सरः, पञ्चसंवत्सरंयुगं, विंशतियुगानि वर्षशतं, इहाहोरात्रेमासे वर्षे वर्षशते चोच्छ्वासपरिमाणमेवं पूर्वसूरिभि संकलितम्॥१॥ “एगंच सयसहस्सं ऊसासाणंतु तेरस सहस्सा। नउयसएणं अहिया दिवसनिसिं होति विनेया॥ ॥२॥ मासेऽविय ऊसासा लक्खा तित्तीस सहस पणनउई। सत्त सयाईजाणसु कहियाइं पुव्वसूरीहिं ।। ॥३॥ चत्तारिय कोडीओ लक्खा सत्तेव होंति नायव्वा । ____ अडयालीससहस्सा चारसया होंति वरिसेणं ॥ दश वर्षशतानि वर्षसहस्रं शतं वर्षसहस्राणां वर्षशतसहस्रं चतुरशीति वर्षशतसहस्राणि एकंपूर्वाङ्ग, चतुरशीति पूर्वाङ्गशतसहस्राणिएकंपूर्व, चतुरशीतिपूर्ववर्षशतसहस्राणि एकंत्रुटिताङ्गं, चतुरशीति त्रुटिताङ्गशतसहस्राणि एकं त्रुटितं, चतुरशीतिस्त्रुटितशतसहस्राणि एकमडडाझं, चतुरशीतिरडडाङ्गशतसहस्राणि एकमडडं, चतुरशीतिरडडशतसहस्राणि एवमववाझं, चतुरशीतिरववाङ्गशतसहस्राणि एकमववं, चतुरशीतिरववशतसहस्राणि एकं हूहुकाङ्गं, चतुरशीतिहहुकाङ्गशतसहसप्रणि एकं हूहुकं, चतुरशीतिहूंहुकशतसहस्राणि एकमुत्पलाङ्गं, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकंपद्माङ्गं, चतुरशीति पद्माङ्गशतसहस्राणि एकं पद्म, चतुरशीति पद्मशतसहस्राणि एकं नलिनाङ्गं । चतुरशीतिर्नलिनाङ्गशतसहस्रणि एकं नलिनं, चतुरशीतिर्नलिनशतसहस्राणि एकमर्थनिकुराङ्ग, चतुरशीतिरर्थनिकुराङ्कशतसहस्राणि एकमर्थिकुरं, चतुरशीतिरर्थनिकुरशतसहस्राणि एकमयुताङ्गं, चतुरशीतिरयुताङ्गशतसहस्रणि एकमयुतं, चतुरशीतिरयुतशतहसहस्रणि एकं प्रयुताङ्ग, चतुरशीति प्रयुताङ्गशतसहस्राणि एकं प्रयुतं, चतुरशीति प्रयुतशतसहस्राणि एक नयुताङ्ग, चतुरशीतिर्नयुताङ्गशतसहस्राणिएकंनयुतं, चतुरशीतिर्नयुतशतसहस्राणिएकंचूलिकाङ्गं, चतुरशीतिधूलिकाङअघशतसहस्राणि एका चूलिका, चतुरशीतिधूलिकाशतसहस्राणि एकं शीर्षप्रहेलिकाङ्गं, चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राणि एका शीर्षप्रहेलिका एतावानेवगणितस्य विषयोऽतः परमोपमिकं कालपरिमाणं । ____एतदेवाह-पल्योपममिति वा, पल्योपमस्वरूपं सङ्ग्रहणिटीकातोऽवसातव्यं, तत्र सविस्तर- मभिहितत्वात्, पल्योपमानां दश कोटीकोट्य एकं सागरोपम, दश कोटीकोटयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy